________________
अलंकारकौस्तुभः । ति । फलितार्थस्तु-यत्सादृश्यप्रतियोगितायामुपमेयतावच्छेदकावच्छिन्नत्वस्वाश्रयमात्रवृत्तिस्वानवच्छेदकधर्मसामानाधिकरण्योभयाभावः सोपमा । यच्छब्दबोध्यायां सादृश्यप्रतियोगितायामित्यर्थः । 'चन्द्र इव मुखम्' इत्यत्र चन्द्रनिष्ठसादृश्यप्रतियोगितायामुभयाभावसत्त्वाल्लक्षणसमसादृश्याविषयकज्ञानविषयत्वेन तात्पर्यविषयत्वे सति भिन्ननिरूपितसादृश्यमुपमा' इति पर्यवसितम्, तथा च 'शैला इवोन्नताः सन्तः किं तु प्रकृतिकोमलाः' इत्यादौ व्यतिरेके व्यभिचारः । तत्रापि सादृश्यस्य यथोक्ततात्पर्यविषयत्वात् । न च व्यतिरेक एव कवेस्तात्पर्य न तु सादृश्य इति वाच्यम् । धर्मान्तरप्रयुक्तसादृश्याभावस्यैव व्यतिरेकपदाथतया सादृश्यस्यापि तद्विषयत्वानपायात् । विधेयतया तात्पर्यविषयत्वनिवेशेऽपि ‘स ययौ प्रथमं प्राची तुल्यः प्राचीनबर्हिषा' इत्यादावनुवाद्यसादृश्यरूपोपमायामव्याप्तेश्चेत्यादिदोषोद्धारायाह-फलितार्थस्त्विति । अर्थालंकारत्वनिर्वाहाय व्याचष्टे-यच्छब्दबोध्यायामिति । यस्यां शब्दबोध्यायामिति कर्मधारयः । शब्दबोध्यत्वं च तजन्यबोधविषयत्वमात्रम् । तेन 'चन्द्र इव' इत्यादौ प्रतियोगितायाः संसर्गविधयैव भासमानत्वाच्छब्दार्थत्वाभावेऽपि न क्षतिः । यच्छब्दार्थस्य शब्दविशेषणत्वे विधेयपरामर्षिणा तच्छब्देन तस्यैव परामर्षे शब्दोद्देशेनैवोपमात्वविधानापत्तावसंगतिप्रसङ्गात् । उक्तरीत्या तु प्रतियोगिताया एव यच्छब्देनोपादानेनानुपपत्तिः । तथा च शब्दबोध्यत्वमपि प्रतियोगितायां विशेषणं देयमित्यर्थः । 'उपमानवृत्तिसादृश्यप्रतियोगित्वमेवोपमा' इति मतमाश्रित्येदम् । 'सादृश्यमेवोपमा' इति पक्षे तु यत्सादृश्येत्यस्य यस्य सादृश्यस्य प्रतियोगितायामिति यत्पदार्थः सादृश्यविशेषणम्, सादृश्ये च शब्दबोध्यत्वं विशेषणं पूर्ववत् । 'सा उपमा' इत्यत्र सेति स्त्रीत्वं तु विधेयलिङ्गग्राहकत्वात् । तदुक्तं कैयटादिभिः'उद्देश्यप्रतिनिर्देश्ययोरैक्यमापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गमुपाददते' इति । क्वचिदुद्देश्यलिङ्गता, क्वचिच्च विधेयलिङ्गता । विवक्षाभेदादिति तदर्थः । एवमन्यत्राप्यवसेयम् । उभयाभाव इति । उभयप्रतियोगिकोऽन्यतरत्वावच्छिन्नप्रतियोगिताकोऽभाव इत्यर्थः । नतूभयत्वावच्छिन्नप्रतियोगिताकः, तथा सत्यनन्वये उपमेयतावच्छेदकावच्छिन्नत्वसत्त्वेऽपि स्वाश्रयमात्रवृत्तिस्वानवच्छेदकधर्मसामानाधिकरण्यं नास्तीत्युभंयत्वाद्यवच्छिन्नप्रतियोगिताकाभावसत्त्वात् , व्यतिरेके च स्वाश्रयमात्रवृत्तिस्वानवच्छेदकधर्मसामानाधिकरण्यसत्त्वेऽपि उपमेयतावच्छेदकावच्छिन्नत्वं प्रतियोगितायां नास्तीति तादृशाभावसत्त्वाद्यभिचारतादवस्थ्यापत्तेः । अन्यतरत्वावच्छिन्नप्रतियोगिताकस्त्वभावोऽन्यतरवति न सं. भवति इति न तदुभयत्र व्यभिचारः । न चोभयाभावपदेनोभयत्वस्यैव प्रतियोगितावच्छेदकत्वं लभ्यत इति वाच्यम् । 'भूतत्वमूर्तत्वोभयत्वान्मूर्तत्वादित्यादौ द्वित्वाद्यवच्छिनाभावस्य तथात्वेऽपि' इति दीधितिवाक्ये—'द्वयवृत्तिव्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावपरतयापि व्याख्यानदर्शनात् । उत्सर्गस्य बाधकत्वे - सति अप्रयोजकत्वात् ।