________________
काव्यमाला।
न्वयः स्फुट एव । अनन्वयेऽतिव्याप्तिवारणाय-उपमेयतावच्छेदकावच्छिन्नत्वाभाव उक्तः । तत्र तूपमेयतावच्छेदकचन्द्रत्वावच्छिन्नत्वसत्त्वानातिव्याप्तिः । व्यतिरेकेऽतिव्याप्तिवारणाय—स्वाश्रयेत्यादि । उभयत्र स्वपदं प्रतियोगितापरम् । तत्र तूपमेयापेक्षयोपमानेऽपकर्षवर्णननियमात्प्रतियोगिताश्रय उपमानम् । तन्मात्रवृत्तिः प्रतियोगितानवच्छेदकश्च धर्मोऽपकर्षप्रयोजकः, तत्सामानाधिकरण्यमेव सादृश्यप्रतियोगिता. यामिति न व्यभिचारः ॥ न चैवमप्यनुपात्तापकर्षहेतुधर्मकव्यतिरेके व्य. भिचारः, अलंकारसाक्षाद्विभाजकोपाध्यवच्छेदेन तथात्वस्य विवक्षितत्वात् । उक्तधर्मश्च तद्वाक्योपस्थाप्यो ग्राह्यः, अन्यथासंभवापत्तेः । 'चन्द्र इव मुखम्' इत्यत्रापि चन्द्रमात्रवृत्तिचन्द्रत्वसामानाधिकरण्यं सादृश्यप्रतियोगितायामस्तीत्यसंभववारणाय—स्वानवच्छेदकेति । चन्द्रत्वस्य तु सादृश्यप्रतियोगितावच्छेदकत्वमस्त्येवेति न दोषः । तत्रैव तादृशप्रतियोगितानवच्छेदकालादकत्वादिधर्मसामानाधिकरण्यं प्रतियोगितायामस्त्येवेत्यसंभवतादवस्थ्यमेवेत्यत उक्तम्-स्वाश्रयमात्रवृत्तीति । तत्रापि मात्रपदानुपा
स्फुट इति । तत्र चन्द्रत्वस्य सादृश्यप्रतियोगितावच्छेदकतया चन्द्रवृत्तिसादृश्यप्रतियोगितायामुपमेयतावच्छेदकमुखत्वावच्छिन्नत्वाभावस्योक्तप्रतियोगिताश्रयीभूतचन्द्रमात्रत्तिप्रतियोगितानवच्छेदकधर्मसामानाधिकरण्याभावस्य च सत्त्वादित्यर्थः । ननु स्वाश्रयमात्रेत्यादिविवक्षायामसंभवापत्तिः, चन्द्रमात्रवृत्तिः प्रतियोगितानवच्छेदकश्च धर्मस्तन्मात्रवृत्तिभेदव्यक्त्यादिः, तत्सामानाधिकरण्यस्य प्रतियोगितायां सत्त्वादित्यत आहउक्तधर्मश्चेति । तद्वाक्येति । उपमाश्रयत्वाभिमतवाक्यार्थबोधविषयीभूतेत्यर्थः । तथा च तादृशभेदादेश्चन्द्रमात्रवृत्तित्वेऽपि 'चन्द्र इव मुखम्' इत्येतद्वाक्यबोध्यत्वाभावान दोष इत्यर्थः । नन्वेवमपि 'चन्द्र इव मुखम्' इत्यत्र चन्द्रमात्रवृत्तिः प्रतियोगितानवच्छेदकस्तद्वाक्योपस्थाप्यश्च धर्मोऽप्रसिद्ध एव, मुखत्वसादृश्ययोश्चन्द्रेतरवृत्तित्वात्, चन्द्रत्वस्य सादृश्यप्रतियोगितावच्छेदकत्वात्, अन्यस्य च तद्वाक्यानुपस्थाप्यत्वात् । मैवम् । प्रतियोगितारूपस्यैव तादृशधर्मस्य सुलभत्वात् । न च तस्यां तत्सामानाधि. करण्यस्यैव सत्त्वादसंभव एवेति वाच्यम्, भेदगर्भसामानाधिकरण्यस्य तत्राप्यभावोपपत्तेः । चन्द्रत्वावच्छिन्नप्रतियोगितायाश्चन्द्रेतरावृत्तित्वस्यापि सत्त्वात् । व्यधिकरणधर्मावच्छि. नाभावानभ्युपगमात् । अभ्युपगमे वा तस्य संयोगाद्यवच्छिन्नतया सादृश्यप्रतियोगिताया अतथाले न तद्भिन्नत्वात् स्वपदेन सादृश्यनिरूपितप्रतियोगिताया एव धारणात् । न