________________
अलंकारकौस्तुभः । त्ताहादकत्वादेरपि चन्द्रवृत्तित्वाद्दोष एवेत्यत उक्तम्-मात्रेति । तस्यो(त्रो)पमेयवृत्तित्वस्यापि सत्त्वान्न प्रतियोगिताश्रयमात्रवृत्तित्वम् । ननु 'चन्द्र इव चन्द्रो मुखं च रमणीयम्' इत्यत्रातिव्याप्तिः, चन्द्रनिष्ठसाहश्यप्रतियोगितायामुपमेयतावच्छेदकावच्छिन्नत्वाभावसत्त्वात् । अत्र ह्येकैव चन्द्रनिष्ठा सादृश्यप्रतियोगिता मुखनिष्ठोपमेयतानिरूपिता चन्द्रनिष्ठोपमेयतानिरूपिता च । न चात्रोपमैवेति वाच्यम्, अनन्वयोपमासमूहालम्बनरूपत्वेनातथात्वात् । न चोपमांशे लक्षणमस्त्येव । अनन्वयांशे तूपमेयतावच्छेदकावच्छिन्नत्वसत्त्वादेव न दोष इति वाच्यम्, प्रतियोगिताया ऐ.
चैवमिति । एवं तद्वाक्योपस्थाप्यस्यापि धर्मे विशेषणीकरण इत्यर्थः । अनुपात्तेति । 'व्यतिरेके हि क्वचिदपकर्षहेतु: शब्दोपात्तः, क्वचिदर्थलभ्यः' इत्यग्रे वक्ष्यते । तत्रोपमानवृत्तेरपकर्षहेतुधर्मस्य शब्दोपात्तत्वेन तस्यापि तद्वाक्योपस्थाप्यत्वेन तत्सामानाधिकरण्याभावः सादृश्यप्रतियोगितायां नास्तीति व्यभिचारवारणेऽपि तस्यार्थगम्यत्वे धर्मे तद्वाक्योपस्थाप्यत्वाभावप्रयुक्तस्य तादृशधर्मसामानाधिकरण्याभावस्यैव सत्त्वादतिव्याप्तिरिति भावः । नचा(न्व)पकर्षहेतुधर्मोपादानेऽपि तस्योपमानमात्रवृत्तित्वाभावात्कथं नातिव्याप्तिः, कलङ्कादेरन्यत्रापि सत्त्वात् । मैवम् । तद्वाक्यार्थे उपमानेतरवृत्तित्वेन प्रतीयमानत्वाभावस्यैव तदितरावृत्तित्वस्य विवक्षितत्वात् । यद्वा-उपमेयावृत्तित्वमेव तेन विवक्षणीयम् । तदर्थस्तु विशेष्यत्वप्रकारत्वान्यतरसंबन्धेनोपमेयवृत्तिधर्माभेदारोपवद्यतदन्यत्वम् । अन्यथा चन्द्रमुखादिवृत्तिरमणीयादेर्वस्तुतोऽभिन्नतयासंभवापत्तेः । 'पाण्ड्योऽयम्' इत्यादौ हारनिर्झरादेरभेदारोपस्यावश्यकतया निर्झरस्य यथोक्तोपमेयवृत्तित्वाभावान्नाव्याप्तिः । न चैवमपि सादृश्यप्रतियोगित्वरूपतादृशधर्मसामानाधिकरण्यस्य सादृश्यप्रतियोगितायां सत्त्वादसंभवतादवस्थ्यमिति वाच्यम् । भेदगर्भसामानाधिकरण्यनिवेशस्योक्तत्वात् । साक्षादिति । तथा च व्यतिरेकविशेषे तथात्वेऽपि तत्त्वस्यालंकारसाक्षाद्विभाजकत्वाभावाद्यतिरेकत्वावच्छिन्नमात्रस्य चोक्तलक्षणानाक्रान्तत्वान्न व्यभिचारः । ततश्च 'यस्यां प्रतियोगितायामलंकारसाक्षाद्विभाजकोपाध्यवच्छेदेन यथोक्ताभावः' इति पर्यवस्यतीति भावः । वस्तुतस्तु-तद्वाक्योपस्थाप्यत्वं तद्वाक्यतात्पर्यविषयत्वमात्रम्, न तु तजन्यशाब्दधीविषयत्वमात्रमेव । अतोऽनुपात्तापकर्षहेतावपि व्यतिरेकेऽपकर्षप्रयोजकधर्मस्य तद्वाक्यबोध्यसादृश्याभावप्रयोजकतया तद्वाक्यतात्पर्यविषयत्वसत्त्वात्तादृशधर्मनिष्टतद्वाक्योपस्थाप्यत्वाभावप्रयुक्तोऽपि तादृशधर्मसामानाधिकरण्याभावो नास्तीति न व्यभिचारः । चन्द्रादिमात्रवृत्तिभेदव्यक्त्यादेश्च वस्तुतश्चन्द्रेतरावृत्तित्वेऽपि तद्वाक्यतात्पर्यविषयत्वाभावात्तत्सामानाधिकरण्यस्य प्रतियोगितायां सत्त्वेऽपि