________________
अलंकारकौस्तुभः ।
तथापीदं पारिप्लवयति मनो मे सुमहतां निबन्धानामेकीभवितुमभिसंधाननिवहः ॥
३
अथ तेषामुद्देशः
उपमानन्वय उक्तः स्यादुपमेयोपमोत्प्रेक्षाः । संदेहरूपकापह्नुतयः श्लेषः समासोक्तिः ॥ १ ॥ प्रोक्ता निदर्शनाप्रस्तुतप्रशंसा त्वतिशयोक्तिः । प्रतिवस्तूपमया सह दृष्टान्तो दीपतुल्ययोगित्वे ॥ २ ॥ व्यतिरेकश्चाक्षेपो विभावनाप्यथ विशेषोक्तिः । तदनु यथासंख्यार्थान्तरविन्यासौ विरोधभावोक्ती ॥ ३ ॥ व्याजस्तुतिः सहोक्तिर्विनोक्तिपरिवृत्तिभाविकान्यपि च । अथ काव्यलिङ्गपर्यायोक्तोदात्ताः समुच्चयस्तद्वत् ॥ ४ ॥ पर्यायोऽप्यनुमानं परिकरकितवोक्तिपरिसंख्याः । कारणमालान्योत्तयोत्तरसूक्ष्मं सार इत्य संगत्या ॥ ५ ॥ ससमाधी समविषमावधिकाख्यं प्रत्यनीकमीलितवत् । एकावलिस्मृतिभ्रमप्रतीपसामान्यवान्विशेषश्च ॥ ६ ॥
आदन्ताद्धातोः शक्यार्थे युच् । बुधानां ज्ञानस्य सिद्धत्वात्तदर्थं तावदेतदारम्भ इति व्याहतमेव । चमत्कारोऽपि तेषामेतादृशस्वल्पार्थान्न स्यादेवेत्यर्थः । पारिप्लवयति चञ्चलं करोति । ग्रन्थे प्रवर्तयतीत्यर्थः । निबन्धाः काव्यप्रकाशादयः । अभिसंधानमभिप्रायः । तत्तदभिप्रायाणां तत्तद्रन्थेषु व्यस्तत्वादेकत्र संग्रहः सौकर्यार्थ क्रियत इति भावः 1 तत्र 'अर्थोपकारकद्वारा रसोपकारकत्वमर्थालंकारत्वम्' इति सामान्यलक्षणं प्रसिद्धम् ! साक्षाद्रसोपकारकेषु गुणेषु व्यभिचारवारणाय द्वारान्तम् । तत्स्पष्टत्वादुपेक्ष्य काव्यप्रकाशसंमतालंकाराणामेवात्र व्यवस्थापनीयता सूचयन् – 'एतदन्यतमत्वरूपम् लक्षणान्तरमपि द्योतयन्नाह - अथेति । भावोक्तिः स्वभावोक्तिः । कितवोक्तिः व्याजोक्तिः । प्रतीपेत्यत्र संयोगस्य पादादिगतत्वात् तस्मिन्परतो भ्रमेत्यत्राकारस्य न गुरुत्वम् । तदुक्तं वृत्तरत्नाकरे – ' पादादाविह वर्णस्य संयोगः क्रमसंज्ञकः । पुरः स्थितेन तेन स्याल्लघुतापि क्वचिद्गुरोः ॥' नन्वलंकारान्तराण्यपि ग्रन्थान्तरेषु दृश्यन्त इति तदनभिधाना न्यूनते
१. ' व्याख्यात' क ख २० 'त्यत्रत्यस्य अका' ख-ग.
·