________________
काव्यमाला ।
लोकस्वान्तघनान्धकारपटलध्वंसप्रदीपाङ्करा
विद्याकल्पलताप्रतानजनने बीजं निजासङ्गिनाम् । मध्येमौलि ममासतां सुविमला मालायमानाश्चिरं
श्रीलक्ष्मीधरविद्वदङ्ग्रिनलिनोदीताः परागाणवः ॥ अर्थालंकाराणां भूरिग्रन्थस्थितं सारम् । संगृह्णाति सुखेन ज्ञप्त्यै विश्वेश्वरोऽन्येषाम् ॥ धियो वैधेयानां भवति विषयोऽसावविषयो
बुधानां स्वाधानं नच कुतुकमेतादृशकृतेः। भावश्च तदङ्गम् । स्वभावोक्तिरर्थालंकारः ॥ स्वगुरुप्रणाममाह-लोकेति । अन्धकारपदेन वस्तुविवेकप्रतिकूलत्वसाधर्येण अज्ञानस्यापि लाभात्तस्य तिमिराभेदसूचनं शक्तिलक्षणाभ्यामुपस्थितयोरप्यर्थयोः 'गङ्गायां घोषः' इत्यादावभेदप्रत्ययाभ्युपगमात् । तनिवर्तकत्वेन परागेषु प्रदीपत्वारोपः । विद्यैव कल्पलतानेकदुर्लभार्थप्रदत्वात् । बीजत्वं तदुत्पत्तिहेतुत्वात् । निजपदं परागपरम् । मध्येमौलि शिरोमध्ये । 'पारे मध्ये षष्ठया वा' इत्यव्ययीभावः । ममेत्यस्य मौलिना सहान्वयः । आसतां तिष्ठन्तु । 'आस उपवेशने' इत्यस्य लोटि प्रथमपुरुषे बहुवचनम् । श्रीपदमुत्कर्षसूचकम् । लक्ष्मीः सर्ववाङ्मयरहस्यावगाहनजन्यातिशयविशेषस्तदन्यापेक्षोत्कर्षधीजनकतयानुभवसिद्धः । यदभिप्रायेण 'शोभतेऽस्य मुखं य एवं वेद' इति गर्गत्रिरात्रब्राह्मणवाक्ये योग्यानुपलब्धिदोषनिराकरणाय भगवता जैमिनिनार्थवादाधिकरणे 'विद्याप्रशंसा' इति सूत्रितम् । गङ्गाधरादिवत्साधुत्वम् । एतेन श्लेषोपस्थितनारायणाभेदसूचनम् 'आचार्य मां विजानीयानावमन्येत कहिचित्' इति श्रीभागवतात् । अभिनलिनेत्युपमितसमासः । उदीतेति 'ईल कान्तिगतिव्याप्तिक्षेपप्रजनखादने' इति कविकल्पद्रुमपठितस्योत्पूर्वस्य रूपं 'प्रियस्मृतेः स्पष्टमुदीतकण्टकाम्' इत्यादिवत् ॥ चिकीर्षितं प्रतिजानन्नेव प्रयोजनाद्याह-अर्थेति । अलंकारा द्विधा शब्दार्थभेदात् । शब्दालंकारा यमकादयः, अर्थालंकारा उपमादयः । आयेषु तथा विचारणीया भावादर्थालंकारा एव विचार्यन्ते । अनेकविप्रतिपत्तिगहनत्वात् । अप्रामाण्यशङ्कानिरासाय भूरिग्रन्थेति । पौनरौक्त्यवारणाय सारेति । प्रयोजनमाह-सुखेनेति । तद्बोधकामश्चाधिकारीति सामर्थ्यादेव लभ्यते । तथा चाहुः–'सिद्धार्थ सिद्धसंबन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः संबन्धः सप्रयोजनः ॥' परमप्रयोजनं तु यत्काव्यस्य तदेवास्यापीति बोध्यम् । तच्चान्यत्र काव्यप्रकाशादौ स्पष्टमिति नात्र प्रपश्यते ॥ अस्य ग्रन्थस्य मन्ददुर्बोधतामाह-धिय इति । 'मूर्खवैधेयबालिशाः' इत्यमरः । एतेन मन्दार्थमेतन्निर्माणनिरासः । विनयार्थमाह-बुधानामिति । सुखेन आधातुं शक्यं स्वाधानम् । सुकरमित्यर्थः। 'आतो युच्' इति