Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 18
________________ काव्यमाला । तापक्षेऽनुपपत्त्यभावात् । अत एव 'चन्द्रो न चन्द्रनिष्ठसादृश्यप्रतियोगी' इति बाधधीसत्त्वेऽपि 'चन्द्र इव चन्द्रो मुखं च रमणीयम्' इति वाक्यात् 'मुखं चन्द्रनिष्ठसादृश्यप्रतियोगी' इति बोधोऽनुभवसिद्ध इति । उपमानोपमेयत्वं चात्र तत्त्वेन लोकप्रसिद्धत्वम् । अतो न प्रतीपे व्यभिचारः, तत्र मुखप्रतियोगिकसादृश्यस्य चन्द्रे वर्णनीयतया सादृश्यप्रतियोगितायामुपमेयतावच्छेदकत्वसत्त्वात् । एवमुपमेयोपमायामपि नातिव्याप्तिः, उपमानोपमेययोर्लोकप्रसिद्धयोरेवोपादानमित्यस्याभिमतत्वेन तत्र 'मुखमिव चन्द्रः' इत्यंशे उपमेयतावच्छेदकीभूतमुखत्वावच्छिन्नत्वात्साहश्यप्रतियोगिताया इति दिक् । महालम्बनरूपाया उपमेवोपमाया असंग्राह्यत्वम् उपमानन्वयसमूहालम्बनरूपस्योक्तस्य तु संग्राह्यत्वमित्यत्र कि मानमिति वाच्यम् । तत्रालंकारान्तरत्वं तात्रिकैरुक्तं न त्वत्रे. त्यस्यैव मानत्वात् । लक्ष्यालक्ष्यत्वव्यवस्थायां च प्रामाणिकव्यवहारस्यैव मानत्वात् । त. देतदाह-अत एवेति । उक्तरीत्या चन्द्र इव मुखमित्यंशे लक्ष्यत्वादेवेत्यर्थः । चन्द्र इति । 'चन्द्रप्रतियोगिकसादृश्याभाववांश्चन्द्रः' इति बाधस्योपलक्षणम् । अपिशब्दो बाधकाभावसमुच्चयार्थः । तथा च चन्द्रविशेष्यकचन्द्रसादृश्यप्रकारकज्ञानकालीनस्तदभावकालीनो वा मुखं चन्द्रसदृशमिति यत्र बोधस्तत्रोपमैव । उपमेयोपमायां तु मुखसादृश्यप्रकारकत्वाभाववद्वृत्तिचन्द्रसादृश्यप्रकारकत्ववद्यदा ज्ञानं तदा सैवालंकारः । अन्यतरमात्रप्रकारकत्ववद् ज्ञानस्थले तु उपमाप्रतीपं चायथायोगं संभवति तथा चोपमात्वप्रयो. जकबोधस्य तदुभयज्ञानकालेऽपि सुस्थत्वात्तदंशे लक्षणगमनादिति हेतो तिव्याप्तिरिति शेषः । अतएव चन्द्र इव मुखं मुखमिव चन्द्र इत्यत्रोभयांशज्ञाने नोपमा, प्रतीपं वा। किंत्वेकांशमात्रज्ञाने इति पूर्वोक्तस्थलाद्वैषम्यमभिप्रेत्य तत्र व्यभिचारवारणायोपायमाहउपमानोपमेयत्वं चेति । त्वप्रत्ययार्थस्योभयत्रान्वयः । 'द्वन्द्वात्परं श्रूयमाणं पदं प्र. त्येकमभिसंबध्यते' इति व्युत्पत्तौ पदशब्दस्य शब्दमात्रपरत्वात् । 'व्याप्तिविशिष्टपक्षधर्मता-' इत्यादौ तथा दर्शनात् । 'पटीमृदयते' इत्यादौ द्वन्द्वोत्तरक्यप्रत्ययार्थस्याचारस्योभयान्वयिताया भाष्यादिसंमतत्वाच्च । तत्त्वेनेति । तनिष्ठसादृश्यप्रतियोगित्वेन, तत्प्रतियोगिकसादृश्याश्रयत्वेन चेत्यर्थः । उपमेयोपमायामपि प्रत्येकांशस्य नोपमाप्रतीपलक्षण १. 'सादृश्यस्य प्र.'. २. 'त्वासत्त्वात्'.

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 436