________________
काव्यमाला ।
तापक्षेऽनुपपत्त्यभावात् । अत एव 'चन्द्रो न चन्द्रनिष्ठसादृश्यप्रतियोगी' इति बाधधीसत्त्वेऽपि 'चन्द्र इव चन्द्रो मुखं च रमणीयम्' इति वाक्यात् 'मुखं चन्द्रनिष्ठसादृश्यप्रतियोगी' इति बोधोऽनुभवसिद्ध इति ।
उपमानोपमेयत्वं चात्र तत्त्वेन लोकप्रसिद्धत्वम् । अतो न प्रतीपे व्यभिचारः, तत्र मुखप्रतियोगिकसादृश्यस्य चन्द्रे वर्णनीयतया सादृश्यप्रतियोगितायामुपमेयतावच्छेदकत्वसत्त्वात् । एवमुपमेयोपमायामपि नातिव्याप्तिः, उपमानोपमेययोर्लोकप्रसिद्धयोरेवोपादानमित्यस्याभिमतत्वेन तत्र 'मुखमिव चन्द्रः' इत्यंशे उपमेयतावच्छेदकीभूतमुखत्वावच्छिन्नत्वात्साहश्यप्रतियोगिताया इति दिक् ।
महालम्बनरूपाया उपमेवोपमाया असंग्राह्यत्वम् उपमानन्वयसमूहालम्बनरूपस्योक्तस्य तु संग्राह्यत्वमित्यत्र कि मानमिति वाच्यम् । तत्रालंकारान्तरत्वं तात्रिकैरुक्तं न त्वत्रे. त्यस्यैव मानत्वात् । लक्ष्यालक्ष्यत्वव्यवस्थायां च प्रामाणिकव्यवहारस्यैव मानत्वात् । त. देतदाह-अत एवेति । उक्तरीत्या चन्द्र इव मुखमित्यंशे लक्ष्यत्वादेवेत्यर्थः । चन्द्र इति । 'चन्द्रप्रतियोगिकसादृश्याभाववांश्चन्द्रः' इति बाधस्योपलक्षणम् । अपिशब्दो बाधकाभावसमुच्चयार्थः । तथा च चन्द्रविशेष्यकचन्द्रसादृश्यप्रकारकज्ञानकालीनस्तदभावकालीनो वा मुखं चन्द्रसदृशमिति यत्र बोधस्तत्रोपमैव । उपमेयोपमायां तु मुखसादृश्यप्रकारकत्वाभाववद्वृत्तिचन्द्रसादृश्यप्रकारकत्ववद्यदा ज्ञानं तदा सैवालंकारः । अन्यतरमात्रप्रकारकत्ववद् ज्ञानस्थले तु उपमाप्रतीपं चायथायोगं संभवति तथा चोपमात्वप्रयो. जकबोधस्य तदुभयज्ञानकालेऽपि सुस्थत्वात्तदंशे लक्षणगमनादिति हेतो तिव्याप्तिरिति शेषः । अतएव चन्द्र इव मुखं मुखमिव चन्द्र इत्यत्रोभयांशज्ञाने नोपमा, प्रतीपं वा। किंत्वेकांशमात्रज्ञाने इति पूर्वोक्तस्थलाद्वैषम्यमभिप्रेत्य तत्र व्यभिचारवारणायोपायमाहउपमानोपमेयत्वं चेति । त्वप्रत्ययार्थस्योभयत्रान्वयः । 'द्वन्द्वात्परं श्रूयमाणं पदं प्र. त्येकमभिसंबध्यते' इति व्युत्पत्तौ पदशब्दस्य शब्दमात्रपरत्वात् । 'व्याप्तिविशिष्टपक्षधर्मता-' इत्यादौ तथा दर्शनात् । 'पटीमृदयते' इत्यादौ द्वन्द्वोत्तरक्यप्रत्ययार्थस्याचारस्योभयान्वयिताया भाष्यादिसंमतत्वाच्च । तत्त्वेनेति । तनिष्ठसादृश्यप्रतियोगित्वेन, तत्प्रतियोगिकसादृश्याश्रयत्वेन चेत्यर्थः । उपमेयोपमायामपि प्रत्येकांशस्य नोपमाप्रतीपलक्षण
१. 'सादृश्यस्य प्र.'. २. 'त्वासत्त्वात्'.