________________
अलंकारकौस्तुभः ।
अथैवम्
'चन्द्रबिम्बादिव विषं चन्दनादिव चानलः ।
परुषा वागितो वक्रादित्यसंभावितोपमा ॥' . इत्युक्तोमायामव्याप्तिः, चन्द्रप्रभवविषादेरप्रसिद्धत्वाद् इति चेत् , न । तत्र चन्द्रप्रभवविषादेर्वागुपमाया अविवक्षितत्वात् । किं तु 'यथा चन्द्रबिम्बाद्विषमसंभावितम्, तथा त्वन्मुखात्परुषा वाग्' इत्युपमास्वीकारादिति न्यायपञ्चाननादयः । एवं च 'असंभावितोपमा' इत्यस्य-असंभावितोपमानकत्वं नार्थः, किं तु-असंभावितत्वं तदुपमायां साधारणधर्म इत्येव । तथा च विषपरुषवचनयोरुपमायां चन्द्रचन्दनादेर्मुखस्य च बिम्बप्रतिबिम्बभावः । तेन—'चन्द्रादिनिष्ठकारणताप्रतियोगिककार्यत्वाभावप्रकारकज्ञानविशेष्यविषसदृशी त्वन्मुखनिष्ठकारणताप्रतियोगिककार्यत्वाभावप्रकारकज्ञानविशेष्यभूता परुषोक्तिः' इति पर्यवसितार्थः ।
यत्र तूपमानतावच्छेदकविशिष्टमुपमानमप्रसिद्धम्, तत्रोत्प्रेक्षैव । तदुक्तं चक्रवर्तिना
'यदायमुपमानांशो लोकतः सिद्धिमृच्छति । तदोपमैव येनेवशब्दः सादृश्यवाचकः ॥ यदा पुनरयं लोकादसिद्धः कविकल्पितः ।
तदोत्प्रेक्षैव येनेवशब्दः संभावनापरः॥ इति । लक्ष्यत्वमिति पूर्वोक्तयुक्तिबलादाह-उपमेयोपमायामपीति । अथैवमिति । अप्रसिद्ध धर्मिण्युपमानत्वादिप्रसिद्ध्यसंभवादर्थतो धर्मिणोऽपि लोकप्रसिद्धत्वपर्यवसानात् । न च चन्दनप्रभववर्लोकप्रसिद्धत्वमेवेति वाच्यम् । अनलपदस्य तापपरत्वात् तस्योभाभ्यामप्यादरणीयत्वात् । तेनेति । ज्ञानं तु पूर्वत्र प्रमारूपम् । उत्तरत्र न तथात्वनियम इति विशेषः । उक्तकार्यत्वं च तद्रूपादावेव प्रसिद्धम् , तदभावश्च प्रसिद्धविषादावेव ग्राह्य इति भावः । ननु संभावनाविषयार्थकसंभावितपदेन नञ्समासे असंभावितपदस्वारस्यादुक्तजन्यत्वप्रकारकज्ञानविषयत्वाभावस्य साधारणधर्मत्वं युक्तम्, न तूक्तजन्यत्वाभावप्रकारकज्ञानविषयत्वस्य व्यभिचारेण तनन्यत्वाभावानाक्षेपकत्वात् ज्ञानविषयत्वाभावस्य च तदाक्षेपकत्वात् । तज्जन्यत्वे कस्यचित्तादृशज्ञानावश्यकत्वात् । मैवम् ।
१. 'विनोपमेत्यादावव्याप्तिः'. २. 'भावितं'.