________________
काव्यमाला।
एतेन
"स्वतःसिद्धेन भिन्नेन संमतेन च धर्मतः ।
साम्यमन्येन वय॑स्य वाच्यं चेदेकदोपमा ॥' इति विद्यानाथीयोपमालक्षणमनूद्य 'खतःसिद्धेन' इत्यनेनोत्प्रेक्षायां व्यभिचारवारणम् । 'न नित्यमस्मिन्परिपूर्णतेति त्यक्त्वा नभः क्षोणितलावतीर्णः ।
आनन्दयन्निन्दुरिव स्वधाम्ना विभाति लोके नवकाकतीन्द्रः ॥' इत्युत्प्रेक्षोदाहरण उपमानस्येन्दोः स्वतःसिद्धत्वात् । इन्दुः क्षोणितलावतीर्णत्वाकारेण कविकल्पित इति चेत्, तार्ह 'चन्द्रबिम्बादिव विषम्' इत्याद्युपमायामव्याप्तिः" इति चिंत्रमीमांसोक्तदूषणमपास्तम् । तत्र भूतलावतीर्णत्वविशिष्टचन्द्रस्य स्वतःसिद्धत्वाभावात् । चन्द्रबिम्बजन्यविषत्वं नोपमानतावच्छेदकमिति व्यवस्थापितत्वाच्च ।
यदपि तैरुक्तम्'उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् ।
तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥' इत्यत्रोपमायां विशेष्यस्य कविकल्पितत्वादव्याप्तिः-इति, तदप्यसत् । तत्रातिशयोक्तेरेवाङ्गीकारात् ।प्रवाहस्य(योः) स्वतःसिद्धेन पृथक्त्वेन पातस्यैव कैविकल्पितत्वात् 'विशेष्यस्यापि कविकल्पितत्वात्-' इत्युक्तेरसंगतत्वाच्च । वक्रजन्यत्वाभावज्ञानस्यैव रसानुगुणत्वात् । एतेनेति । उपमानावच्छेदकविशिष्ट. स्याप्रसिद्धत्वे नोपमेति व्यवस्थापनेनेत्यर्थः । स्वतःसिद्धत्वादिति । तथा च तत्राप्युपमालक्षणगमनादतिव्याप्तिरित्यर्थः । व्यवस्थापितत्वाच्चेति । उपमानतावच्छेदकविशिष्टोपमानस्य स्वतःसिद्धतायामेवोपमेति कथितत्वादित्यर्थः । प्रसङ्गात्प्राचीनलक्षणे दीक्षितोक्तदोषानिराकर्तुमाह-यदपीत्यादि । अतिशयोक्तेरेवेति । यद्यर्थोक्तौ च कल्पनमित्येवंरूपाया इत्यर्थः । प्रवाहयोरिति । यद्यप्येक एव तत् प्रवाहः प्रसिद्धः, तथाप्येकप्रवाहोत्पत्त्यनन्तरं प्रवाहान्तराभिप्रायेणेदं वस्तुगत्योक्तम् ।
१. 'ण एवोपमान'. २. 'चित्रमीमांसायां दीक्षितोक्तदूषण'. ३. 'मित्यस्य'. ४. 'विशेप्यस्यापि'. ५. 'कविकल्पिततया'.