________________
अलंकारकौस्तुभः । यच्च तत्रैव-'भिन्नेन' इत्यनन्वयव्यावृत्तावपि
'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । - एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥' इत्युपपादकोपमायामव्याप्तिः, तत्रोपमेयभूतानामङ्ककिरणादीनामुपमानभूतदोषगुणाभिन्नत्वात् । दोषगुणानां च तत्सामान्यत्वात् । अङ्ककिरणानां च तद्विशेषत्वात् । नच- 'उपमेयतावच्छेदकभिन्नत्वमुपमानतावच्छेदके विवक्षितम्, अत्र च दोषोङ्कत्वादीनां भेदोऽस्त्येव-' इति वाच्यम्, 'अनवरतकनकवितरणधृतजललवकरतरङ्गितार्थिततेः ।
भणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला ॥' इति रशनोपमायामव्याप्तेः । मतित्वाद्युपमानतावच्छेदकानामुपमेयतावच्छेदकभिन्नत्वाभावात् । उपमेयोपमायामुपमानतावच्छेदकयोद्वयोरपि तद्भिनत्वाभावादुक्तविशेषणेनैव तव्यभिचारवारणे 'एकदा' इत्यस्य वैयर्थ्यापपत्तेश्च । न च–'खोपमेयतावच्छेदकभिन्नधर्मावच्छिन्नत्वमुपमानस्य विवक्षितम्, 'भणितिरिव मतिः-' इत्यत्र चोपमानाभिन्नत्वादुपमेयतावच्छेदकमतित्वाद्यन्यत्वं भणितित्वादीनामिति न दोषः' - इति वाच्यम्, 'उपाददे तस्य सहस्ररश्मिस्त्वष्ट्रा स्वयं निर्मितमातपत्रम् ।
स तढुकूलादविदूरमौलिर्बभौ पतद्गङ्ग इवोत्तमाङ्गे ॥' इत्यत्राव्याप्तेः । अत्र शिवत्वस्यैवोपमानोपमेयतावच्छेदकत्वात् । न च—'अत्रापि दुकूलविशिष्टपरमेश्वरत्वमुपमेयतावच्छेदकम् , गङ्गाविशिष्टं तदुपमानतावच्छेदकम्, इति भेद एव'—इति वाच्यम्,
'द्वारं द्वारमटन्भिक्षुः शिक्षत्येवं न याचते । अदत्त्वा मादृशो मा भूर्दत्त्वा त्वं त्वादृशो भव ॥'
तद्विशेषत्वादिति । अङ्कस्य दोषविशेषत्वात् , किरणानां च गुणविशेषत्वात् । विशेषे च सामान्यावच्छिन्नप्रतियोगिताकभेदाभावात् 'घटः पृथिवी भिन्नः' इत्यप्रत्ययादित्यर्थः । भेदोऽस्त्येवेति । दोषत्वावच्छिन्नप्रतियोगिताकभेदस्य अङ्के अभावेऽपि दोष
१. 'किरणादीनां'. २. 'दोषत्वाङ्कत्वादीनां'.