________________
१४
काव्यमाला।
इत्यत्राव्याप्तेः । न च-'अयमनन्वय एव-' इति वाच्यम्, तस्य हि द्वितीयसदृशव्यवच्छेदः फलम्, से चात्र बाधान्न-" इति तैरुक्तम् । तदप्यसत्, उपमानतावच्छेदकतापर्याप्त्यधिकरणस्योपमेयतावच्छेदकतापर्यास्यनधिकरणत्वस्य विवक्षितत्वात् 'त्वं त्वादृशो भव' इत्यत्र कालादिकृतभेदविवक्षया तेदभावात् । अन्यथोपमात्वस्यैवानुपपत्तेः । तथा च'एतत्कालोत्तरकालवृत्तिस्त्वमेतत्कालीनत्वत्सदृशो भव' इत्यर्थः । अन्यथा-ऐकस्मिन्नेव काले तत्सादृश्यविधाने सिद्धसाधनापत्तेः । यदपि-"श्लेषव्यावृत्त्यर्थ 'धर्मतः' इति विशेषणमप्ययुक्तम् ,
'सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव ।' इत्यादि श्लेषेऽपि धर्मसाम्यसत्त्वात् । न च-एकत्र कलासाकल्यम्, अन्यत्र च कोलाहलवत्वम्, इत्यनुगतधर्मालाभः—इति वाच्यम्, तयोरभेदाध्यवसायेन धर्मेक्यसंपत्तेः
'पाण्ड्योऽयमंसार्पितलम्बहारः क्लुप्ताङ्गरागो हरिचन्दनेन ।
आभाति बालातपरक्तसानुः सनिझरोद्गार इवाद्रिराजः ॥' इत्यादौ हारनिर्झरादीनां भेदेऽपि बिम्बप्रतिबिम्बभावेन साधारण्यस्वीकारात् । न च-धर्मसाम्ये 'सकलकलम्' इत्यादावुपमैव स्यात्-इति वाच्यम्, शब्दसाम्येऽप्युपैमात्वस्य दुर्वारत्वात्।
'यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा ।
तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥' इत्यादावनुगतार्थ(नामरूप)शब्दसाम्येऽप्युपमादर्शनात्-" इति । तदप्यसत्, धर्मपदस्य 'प्रसिद्धगुणादिसाम्य एवोपमा न त्वन्यत्रापि । यथा 'चत्वाइत्वयोर्भेदसत्त्वात् । अन्यथा सामान्यविशेषभावानुपपत्तेरित्यर्थः । बाधान्नेति । ता. दृशदानप्रयुक्तोत्कर्षवति तादृशदानकर्वन्यसादृश्यासंभवात्तेनैकजातीयादृष्टस्यैव जननादिति सादृश्यविधानसंभवेन द्वितीयव्यवच्छेदे तात्पर्याभावात्सादृश्यस्य वैयर्थ्य एव तत्कल्पनादित्यर्थः । धर्मपदस्येति । शब्दाधिक्यादर्थाधिक्यमिति न्यायेनेत्यर्थः । ननु संमतपदेनैव
१. 'तस्य चात्र'. २. 'तदनपायात्'. ३. 'एतस्मि'. ४. 'इत्युक्तं तदप्यसत्'. ५. 'भावः'. ६. 'पमाया'.