________________
१५
येन प्रकृतेनान्यापन वर्ण्यस्य' इति क्षितुं शक्यत्वाच्च ।
अलंकारकौस्तुमः । न्द्रवत्कलङ्कि मुखम्' इत्येतदर्थकत्वात् । संमतपदेन चोपमानस्यैवासंमतस्य व्यावर्तनात् धर्मपदस्य शब्देतरपरताया विवक्षितुं शक्यत्वाच्च । ___ यदप्युक्तम्- 'अन्येन वर्ण्यस्य' इति प्रतीपव्यावृत्त्यर्थ विशेषणम्, तत्र वयेन प्रकृतेनान्यसादृश्यवर्णनान्न दोषः । तत्र चान्यपदस्य 'वाअकृतादन्येनाप्रकृतेन' इति यद्यर्थः, तदा
'इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु ।
रजांसि समरोत्थानि तच्छोणितनदीष्विव ॥' इति समुचितोपमायामव्याप्तिः, तत्र समराङ्गत्वेन रजसां शोणितेषु पातस्यापि वर्ण्यत्वाद्रजसामप्रकृतत्वाभावात् । यदि तु 'स्वयं वयेनावयेन वा कुतश्चिद्वादन्येन' इत्यर्थः, तदात्युत्कृष्टगुणत्वादुपमानभावमप्यसहमानस्योपैमानत्वकल्पनात्मके प्रतीपेऽतिव्याप्तिः । यथा-- 'अहमेव गुरुः सुदारुणानामिति हालाहल तात मा म दृप्यः । ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥'
अत्र वर्ष्यानां दुर्जनवचसामप्रैकृष्टेन हालाहलेन साम्यवर्णनात्-" इति, तदप्यसत् । सादृश्यप्रयोजकतत्प्रतियोगित्वानुयोगित्वतदवच्छेदकतद्वारणमित्यत आह-संमतेति। तुष्यत्विति न्यायेनाप्याह-शब्देतरेति। पूर्वोक्त एव तात्पर्यम् । अन्येन वर्ण्यस्येति । प्रतियोगित्वं तृतीयार्थः । अन्यप्रतियोगिकं वर्ण्यनिष्टं साम्यमित्यर्थः । प्रतीपे व्यभिचारवारणप्रकारं दर्शयति-तत्रेति। वयेनेति। गर्वमसंभाव्यमिमं लोचनयुगलेन किं वहसि भद्रे । सन्ति सदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि॥'इत्यत्र उपमितिक्रियानिष्पत्तिगर्भे, 'आकर्णय सरोजाक्षि वचनीयमिदं भुवि । शशाङ्क. स्तव वक्रेण पामरैरुपमीयते ॥' इति तदनिष्पत्तिगर्भे च प्रतीपे वर्ण्यप्रतियोगिकसाम्यस्यैवाप्रकृते वर्णनादित्यर्थः । एवं प्रयोजनमनूद्य अन्यपदार्थविकल्पेन दूषयति-तत्र चेति । अन्यत्वस्य प्रतियोगिसाकाङ्क्षतया वर्ण्यपदसमभिव्याहाराद्वर्ण्यप्रतियोगिकमेव तल्लभ्यते, वर्ण्यत्वं च प्रकृतत्वमिति । अन्यपदमप्रकृतार्थकमित्यत्र दूषणमाह-तदेतराण्यपीति। वर्ण्यत्वावच्छिन्नप्रतियोगिताकभेदवत्त्वं नार्थः, अपि तु वर्ण्यप्रतियोगिकभेदवत्वमेव । ततश्च रजसां स्वतो वर्ण्यत्वेऽपि वर्ण्यरक्षोभिन्नत्वमस्त्येवोत न दोष इत्याशङ्कते-यदि त्विति। एवमपि तृतीयप्रतीपभेदेऽतिव्याप्तिरित्याह-तदेति । उपमानभावमिति । अन्यनिष्टसादृश्यप्रतियोगित्वमित्यर्थः । उपमानभावमप्यसहमानस्योपमानत्वम् । सादृश्यप्र
१. 'पतनस्या'. २. 'पमेयत्व.' ३. 'प्रकृतेन'. ४. 'हलसाम्य'.