________________
१६
काव्यमाला ।
तदन्यधर्मप्रकारकधीविशेष्यत्वेनाविवक्षितस्यैवान्यपदार्थत्वात् । उक्तप्रतीपे तु दर्पाभावप्रकारकधीविशेष्यतयापि हालाहलस्य विवक्षितत्वात् । विवक्षोपादानात्तदन्यधर्माणां तत्र सत्त्वेऽपि न क्षतिः, नाप्युक्तोपमायामव्याप्तिः । वस्तुतो रजसां वर्ण्यत्वेऽप्युक्तविधान्यत्वस्य तत्रानपायात् ।
यच्चोक्तम् — “वर्ण्यस्य साम्यं वाच्यम्' इत्यस्य कोऽर्थः किम् — अन्यप्रतियोगित्वेन वर्ण्यस्य साम्यं वाच्यम्, किं वा यथाकथंचिद्वर्ण्यावयभयनिरूपितम्, उत—वर्ण्यानुयोगिकत्वेन, इति । नाद्यः
' सरसिजमिदमाननं च तस्याः सममिति चेतसि संमदं व्यधत्त ।' इत्युभयविश्रान्तसादृश्योपमायामव्याप्तेः । न द्वितीयः - प्रतीपेऽतिव्याप्तेः । न तृतीयः, 'वर्ण्यस्य साम्यं वाच्यम्' इत्यत एव विवक्षितार्थलाभाद् 'अन्येन' इत्यस्य वैयर्थ्यापत्तेः - " :-" इति, तदप्यसत् । उक्तविधान्यप्रतियोगिकसादृश्याधिकरणोपमेयकत्वस्यैव तदर्थत्वात्कस्यापि दोषस्याभावात् । 'सरसिजम्' इत्यत्र हि मुखप्रतियोगिक पद्मानुयोगिकस्य पद्मप्रतियोगिकमुखानुयोगिकस्य च साम्यस्य प्रतीतेः । तत्र निरुक्तमन्यत्वं पद्मत्वेऽस्त्येव । तप्रतियोगिकसादृश्याधिकरणं च मुखमिति । प्रतीपे तु तादृशान्यत्वं नास्तीत्युक्तमेव । अन्यादिपदकदम्बेनैवैतादृशार्थलाभान्न तद्वैयर्थ्यम् — इति ।
―――
योजकेति । तादृशश्च रमणीयत्वादिः । तत्पदद्वयं तादृश्यपरम् । तृतीयतत्पदं प्रतियोगित्वपरम् । 'चन्द्र इव मुखं रमणीयम्' इत्यादौ 'सदृशचन्द्रीयं मुखम्' इति बोधाभ्युपगमे प्रतियोगित्व संबन्धावच्छिन्नसादृश्यप्रकार कश्चन्द्र विशेष्यकः 'यादृशरमणीयत्ववान् चन्द्रस्तादृशरमणीयत्ववन्मुखम्' इति बोधे च साधारणधर्मप्रकारकः, 'सरसिजमिदम्' इत्यादौ चानुयोगित्वसंबन्धावच्छिन्नसादृश्यप्रकारकस्तादृशो बोधः सुलभः । चन्द्र इत्यत्र चन्द्र विशेष्यकचन्द्रत्वादिप्रकारकस्तु स्फुट एव । पक्षान्तरे तु साधारणधर्मनिष्ठविशेष्यतानिरूपितप्रकारकत्वसंबन्धेन सादृश्यनिष्टविशेष्यतानिरूपितप्रतियोगित्वावच्छिन्नप्रकारत्वसंबन्धेन सादृश्यनिष्ठप्रकारता निरूपितानुयोगित्वसंबन्धावच्छिन्नविशेष्यतासंबन्धेन च बोधवत्त्वेनाविवक्षितत्वमित्यर्थः । वस्तुतस्तु तद्वत्त्वेनाविवक्षितत्वमात्रे तात्पर्यम् । धीविषयत्वविवक्षायां प्रयोजनाभावात् । अत एव तदन्यधर्माभाववत्त्वमेवोच्यतामित्याशङ्कयाह — विवक्षेति । तदन्यद्रव्यत्वादिधर्माणां तत्र सत्त्वादसंगतिरित्यर्थः । अनपाया
१. ‘विशेष्यकत्वेनापि’. २. ' वैयर्थ्यात् ' .