________________
. अलंकारकौस्तुमः। यदप्युक्तम्-'एकदा' इत्युपमेयोपमावारणार्थम्-'उपमेयत्वाभिमतप्रतियोगिकसादृश्यवर्णनकालानवच्छिन्नं साम्यम्' इत्यर्थकतया निवेशि
दिति । सादृश्यप्रतियोगित्वान्यधर्मवत्वेनाविवक्षितत्वस्य तत्र सत्वादित्यर्थः। यथा श्रुतैकदाशब्देनोपमेयोपमायां व्यभिचारवारणात्तदभिप्रायमनुवदन्ति-उपमेयत्वाभिमतेति । तत्र तु पूर्ववाक्य उपमेयत्वाभिमतं यन्मुखं तत्प्रतियोगिकसादृश्यवर्णनं 'मुखमिव चन्द्रः' इति, तत्समकालीनमेव 'चन्द्र इव मुखम्' इति साम्यमिति न व्यभिचारः। वर्णनमत्र समानाधिकरणं ग्राह्यम् । अन्यथा द्वाभ्यां वक्तृभ्यां यत्रोपमाप्रतीपविवक्षया भागद्वयमुच्चारितं तदुपमायामव्याप्तेः । ननु-तथापि 'चन्द्र इव मुखम्' इत्येतद्वर्णनकाले 'मुखमिव चन्द्रः' इत्येतद्वर्णनाभावादतिव्याप्तिरेव । नच-तद्वक्तृकतादृशवर्णनप्रागभावासमानकालीनत्वं विवक्षितम्-इति वाच्यम् , तेनैव वक्रा प्रतीपाभिप्रायेण तदुत्तरताहशवाक्यप्रयोगे तदुपमायामव्याप्तेः-इति चेत्, सत्यम् । उपमेयत्वाभिमतप्रतियोगिकोपमानवृत्तिसादृश्यविषयकज्ञानविषयत्वेन तात्पर्यविषयत्वस्य विवक्षितत्वान कोऽपि दोषः । उपमेयोपमायां परस्परप्रतियोगिकसादृश्याश्रयत्वेन मुखचन्द्रौ प्रतीयतामिति वक्तृतात्पर्यस्य सत्त्वान्न व्यभिचारः । 'चन्द्र इव मुखम्' इत्युपमाभिप्रायेण प्रयोगानन्तरं प्रतीपाभिप्रायेण 'मुखमिव चन्द्रः' इति प्रयोगे तूक्ततात्पर्याभावानोपमायामव्याप्तिः, परस्पर• प्रतियोगिकत्वाभावमात्रस्य सादृश्यविशेषणत्वे तु 'चन्द्र इव मुखम्' इत्यादावसंभव एव स्यात्, तत्रापि वस्तुतो मुखप्रतियोगिकत्वस्यापि चन्द्रवृत्तिसादृश्ये सत्वात् । अत एव परस्परप्रतियोगिकत्वेन प्रतीयमानत्वाभावमात्रमपि न रमणीयम् , मुखप्रतियोगिकत्वेनाप्यर्थतस्तस्य प्रतीयमानत्वात् । तत्प्रतियोगक सादृश्याश्रयस्य तद्वृत्तिसादृश्यप्रतियोगित्वस्याप्यवगाहनात् । अत एव 'चन्द्र इव मुखम्' इत्येतद्वाक्यादेवार्थवशान्मुखप्रतियोगिकसादृश्यस्यापि चन्द्रे प्रतीतत्वान्मुखमिव चन्द्र इत्यंशवैयर्थपरिहाराय परस्परातिरिक्तसादृश्यव्यवच्छेदः फलतीति सकलालंकारिकसंप्रदायः । न च शाब्द एव तद्विषयत्वाभावो विवक्षितः चन्द्रप्रतियोगिकसादृश्याश्रयत्वेन मुखमवगाहमाने शाब्दबोधे वृत्ते मुखप्रतियोगिकसादृश्यप्रकारकचन्द्रविशेष्यकबाधस्तु मानस एवेति सादृश्ये मुखप्रतियोगिकसादृश्यप्रकारकचन्द्रविशेष्यकशाब्दविषयत्वाभावोऽस्त्येवेति वाच्यम्, मानससादृश्यज्ञानस्याप्युपमात्वस्वीकारेण तादृशविशेषस्याकिंचित्करत्वात् । अथ तस्य बिम्बप्रतिबिम्बभावादावुपमात्वस्वीकारेऽपि उपमेयोपमायां । व्यभिचारवारणस्य यथोक्तमात्रेण संभवात् उभयरूपपरस्परांशनिवेशोऽधिक एवेति विभाव्यते । एवमपि 'मुखमिव चन्द्रः' इति प्रतीपानन्तरं चन्द्र इव मुखमित्युक्ते तदुपमायामव्याप्तिः । न च योग्यताज्ञानादिना तावत्पर्यन्तं पूर्वशाब्दस्य निवृत्त्या न दोषः, तत्कालीनसमानाधिकरणशाब्दविषयत्वाभावस्य विवक्षितत्वादिति वा.