________________
काव्यमाला ।
तम् । तेन 'खमिव जलं जलमिव खम्' इत्यादिपर्यायप्रवृत्तायामुपमेयोपमायामतिव्याप्तिवारणेऽपि
'तद्वल्गुना युगपदुन्मिषितेन ताव
त्सद्यः परस्परतुलामधिरोहतां द्वे । प्रस्पन्दमानपरुषेतरतारमन्त
श्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥' इति युगपत्प्रवृत्तायां तस्यामतिव्याप्यनिरासात्-इति ।' तदप्यसत् । 'सरसिजमिदम्' इति, 'तद्वल्गुना-' इत्यादेश्चैकशीलतया-'आये-उ.
च्यम् । प्रत्येकाभिप्रायेण यत्र वाक्यद्वयं प्रयुक्तं तत्र समूहालम्बनात्मकशाब्दबोधवि. षयत्वादव्याप्तेः, यत्र च प्रतीपवाक्यार्थबोधोत्पत्तिक्षणे चन्द्र इव मुखमित्येतद्योग्यताज्ञानादिकं जातं तदुत्तरक्षणे चन्द्र इव मुखमित्येतद्वाक्यबोध्यायामुपमायामव्याप्तेश्च । यत्र वा मुखमिव चन्द्र इत्येतच्छाब्दसामग्रीप्रत्यक्षात्मकचन्द्र इव मुखमित्येतद्योग्यताज्ञानसामग्री चन्द्रप्रतियोगिकसादृश्यप्रकारकमुखविशेष्यकप्रत्यक्षं जायतामितीच्छा च वृत्ता, तत्र प्रत्यक्षसामग्र्या बलवत्त्वात्प्रत्यक्षात्मकयोग्यताज्ञाने वृत्ते तदुत्तरक्षणे वाक्यार्थद्वयबोधोत्पत्त्या तत्राप्यव्याप्तेश्च । अतो यथोक्तमेव रमणीयम् । पर्यायप्रवृ. त्तायामिति । वाक्यभेदसहितायामित्यर्थः । तद्वल्गुनेति । रघुवंशे वैतालिकोक्तिः । युगपत्प्रवृत्तायामिति । वाक्यभेदरहितायामित्यर्थः । अनिरासादिति । तत्र वर्णनकालभेदाभावादित्यभिमानः । एकदेत्यस्य यथोक्तमर्थमभिसंधाय तदृषणमपास्यति-तदप्यसदिति । सरसिजमिति । न च तत्रापि तेनोपमेयोपमैव स्वीकार्येति वाच्यम् । सकलनिबन्धविरोधात् । पूर्व तत्रोपमालक्षणाव्याप्तेर्दीक्षितै. रेवोक्तत्वाच्च । ननु तथापि परस्परप्रतियोगिकत्वेनानयोः सादृश्यं भासतामित्याकारकतात्पर्यविषयत्वस्य एकदा पदार्थतायास्त्वयोक्तत्वात्सरसिजमित्यादौ तद्वल्गुनेत्यादौ च अव्याप्तिः, तत्र यथोक्ततात्पर्यविषयत्वात् इति चेत् । सत्यम् । तृतीयसदृशव्यवच्छेदफलकत्वाभावस्य विवक्षितत्वात् उक्तस्थले च बीजाभावेन तृतीयसदृशव्यवच्छेदप्रत्ययविरहात् । न चैवं भिन्नेत्यादिविशेषणवैयर्थ्यापत्तिः, व्यवच्छेदाफलकत्वस्याप्रसिद्धावपि. सदृशव्यवच्छेदाफलकं सादृश्यवर्णनमुपमेत्यत एवानन्वयव्यावृत्तेः, तत्र द्वितीयव्यवच्छेदस्यैव फलत्वात् , तृतीयपदं त्वनन्वयव्यावृत्यर्थम्, विशेषणान्तरदानस्य संदर्भविरुद्धत्वादिति वाच्यम् । तस्य लक्षणान्तरत्वेऽपि क्षतिविरहात् । न चैवमे.
१. 'इति'. २. 'निरस्तात्'.