________________
अलंकार कौस्तुभः ।
१९
पमा, द्वितीये -उपमेयोपमा' इति विभागे बीजाभावात्तद्वदस्यापि लक्ष्य • त्वात् । अत एव साहित्यदर्पणादौ - उपमेयोपमावारणाय एकवाक्यवाच्यत्वमेव निवेशितम् । अन्यथा त्वदुक्तोदाहरणेऽप्यतिव्याप्तेस्ततोऽप्यनिरासात्तदसंगत्यापत्तेः ।
यदपि —
'ज्योत्स्नेव नयनानन्दः सुरेव मदकारणम् । प्रभुतेव समाकृष्ट सर्वलोका नितम्बिनी ॥'
इति भिन्नसाधारणधर्ममालोपमायामव्याप्तिः, तत्रानेकदा साम्यप्रतिपादनात् — इति । तदप्यसत् । उक्तस्यैकदापदार्थस्यात्रापि सत्त्वात् । तस्मात्स्वोक्तमेव विस्मृत्य दूषणमेतदिति न किंचिदेतत् ।
यच्च
'रजोभिः स्यन्दनोद्धतैर्गजैश्च घनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ॥'
इति परस्परोपमायामव्याप्तिः — इति । तदप्यसत् । प्रत्येकं लक्षणसत्त्वादुपमाद्वयस्यैव ततः प्रतीतेः ।
यच्च — “व्यङ्गयोपमावारणाय ' वाच्यम्' इत्युक्तमप्ययुक्तम्, 'न पद्मं मुखमेवेदं न भृङ्गौ चक्षुषी इमे । इति विस्पष्टसादृश्यात्तत्त्वाख्यानोपमैव सा ॥'
??
इत्यत्राव्याप्तेः । अत्र साम्यस्यावाच्यत्वात् - इति । तदप्यसत् । भ्रान्तापदुतावेवैतदन्तर्भावात् । दण्डिना तु (नस्तु) सादृश्यस्य प्रतीयमानतामात्राभिप्रायेणोपमाव्यवहारात् । अन्यथा—
'चन्द्रारविन्दयोः कक्षामतिक्रम्य मुखं तव । आत्मनैवाभवत्तुल्यमित्यसाधारणोपमा ॥'
इत्यादेरपि लक्ष्यत्वेऽनन्वयादिविलोपापत्तेः ।
तन्निर्मुक्तस्य द्वितीयलक्षणस्योपमेयोपमायामव्याप्तिरेवेति वाच्यम् । अन्येन वाच्यमित्यस्यान्यमात्रप्रतियोगिकत्वेन वाच्यमित्यर्थकत्वात् । उपमेयोपमायां च स्वप्रतियोगि
१. 'निस्तारा'.