________________
काव्यमाला।
एवं च___ 'त्वदाननमधीराक्षमाविर्दशनदीधिति ।।
भ्रमद्भङ्गमिवालक्ष्यकेसरं भाति पङ्कजम् ॥' इति विशिष्टोपमाक्षिप्तविशेषणोपमायामव्याप्तिः, 'शस्त्री श्यामा' इति वाचकलुप्तायाम्, 'चन्द्रसुहृन्मुखम्' इति साम्यलक्षकपदवदुपमायां चाव्याप्तिः-इति यदुक्तम् । तदपि न सत् । भृङ्गनेत्रादीनां बिम्बप्रतिबिम्बभावापन्नतयाभेदस्यैव विवक्षिततया तदुपमाया अविवक्षितत्वात् । वाच्यपदस्य व्यञ्जनाभिन्नवृत्तिविषयत्वस्य विवक्षिततया दोषद्वयस्याभावाच । यदपि—साम्यं विधेयतया वाच्यमुच्यते, अनुवाद्यतया वा । आये
'स कर्षन्महतीं सेनां पूर्वसागरगामिनीम् ।
___ बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः ॥' इत्यादावेव लक्षणं स्यात् ।
'स ययौ प्रथमं प्राची तुल्यः प्राचीनबर्हिषा । ____ अहिताननिलोद्भूतैस्तनयन्निव केतुभिः ॥' इत्यादौ न स्यात् । अन्त्ये—व्यतिरेकालंकारे
_. 'मुखेन निष्कलङ्केन न समस्तव चन्द्रमाः ।' इत्यादौ निषेधानुवादादतिव्याप्तिः। न च-निषेधाप्रतियोगित्वेन 'वाच्यम्' इति वाच्यम्, ___ 'असिमात्रसहायोऽपि प्रभूतारिपराभवे ।
नैवान्यतुच्छजनवत्सगर्वोऽयं महाधृतिः ॥' कत्वेनापि वाच्यत्वादनतिव्याप्तेः । उपमायां तु स्वप्रतियोगिकत्वस्यार्थादवगाहनेऽपि तस्य वाच्यत्वविरहेणान्यमात्रप्रतियोगिकत्वेन वाच्यत्वसत्वात् । एवमन्यदप्यूह्यम् । तद्वल्गुनेत्यस्य लक्ष्यत्वेऽभियुक्तसंमतिमाह-अत एवेति । स कर्षन्निति । बभाविति भानरूपसामान्यधर्मस्यात्र विधेयत्वात्साम्यस्य च साधारणधर्मरूपत्वादित्यर्थः । स ययाविति । ययाविति गमनस्यैव विधेयत्वादिन्द्रतुल्य इति साम्यस्यानुवाद्यकोटिप्रविष्टत्वादित्यर्थः । अनुवादादिति । प्रतियोगिनं विना तनिषेधस्याशक्यत्वात् । निषेधाप्रतियोगित्वेनेति । न समस्तव चन्द्रमा इत्यत्र तु साम्यस्य निषेध्यत्वेन
१. 'विशेषणीयम्' इति चित्रमीमांसा.