________________
अलंकारकौस्तुभः।
२१ इति व्यतिरेके तथाप्यतिव्याप्तेः । न च-निषेधप्रतियोगिकोट्यनुप्रविष्टत्वेन निषेध्यम्-इति वाच्यम्, __'वृथा चरसि किं भृङ्ग तत्र तत्र वनान्तरे ।
मालतीसदृशीं वापि भ्रमन्नपि न लप्स्यसे ॥' इत्युपमानलुप्तायामतिव्याप्तिः, तत्र सदृशीलाभनिषेधे सादृश्यस्यापि प्रतियोगिकोटिनिविष्टत्वात् इति । तदप्यसत् । 'स्वाभावप्रयोजकाभावप्रतियोगिकोट्यप्रविष्टत्वे सति' इति विशेषणात् । स्वपदं सादृश्यपरम् । सहशीलाभनिषेधस्य च न सादृश्याभावप्रयोजकत्वमिति नातिव्याप्तिः । सगर्वत्वनिषेधस्य च तत्र तुच्छसादृश्याभावप्रयोजकत्वमेवेति न व्यभिचारः। एतेन दीक्षितानुयायिनो रसगङ्गाधरकृतोऽपि निरस्ताः । इत्यलं विचारान्तरेण । सरखतीकण्ठाभरणे तु
'प्रसिद्धेरनुरोधेन यः परस्परमर्थयोः ।
भूयोऽवयवसामान्ययोगः सेहोपमा मता ॥' इति । तत्रापि दीक्षिता आहुः
'ससञ्जुरश्वक्षुण्णानामेलानामुत्पतिष्णवः ।
तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः॥' इत्यादिगुणक्रियादीनां परस्परसाम्यवर्णनात्मिकायाम्,
'उद्गर्भहूणरमणीरमणोपमर्द
भुग्नोन्नतस्तननिवेशसमं हिमांशोः । निषेधप्रतियोगित्वमेवेति नातिव्याप्तिः । तथा च विधेयत्वमनुवाद्यत्वं वा किमपि न विवक्षणीयम्, किं त्वनिषेध्यत्वमेव, तेन नातिव्याप्तिरव्याप्तिर्वेत्यर्थः । व्यतिरेक इति । अन्यतुच्छजनवत्सगर्वो नास्तीत्यत्र सगर्वत्वस्यैव निषेधप्रतियोगितया वत्यर्थसादृश्यस्य निषेधप्रतियोगित्वाभावादतिव्याप्तिरित्यर्थः । निषेधप्रतियोगिकोटीति । उक्तस्थले च सादृश्यस्य निषेधाभावेऽपि अन्यतुच्छप्रतियोगिकसादृश्याधिकरणसगर्वत्वनिषेधेन साहश्यस्य निषेधप्रतियोगिकोटावनुप्रवेशोऽस्त्येवेति नातिव्याप्तिरित्यर्थः । न सादृश्याभावेति । अलाभेऽपि वस्तुनः सत्वादित्यर्थः । तुच्छसादृश्यति । धर्मनिषेधे तत्प्रयुक्तसादृश्यनिषेधस्यार्थसिद्धत्वादित्यर्थः । गुणक्रियादीनामिति । तेषां निरवयव१. 'हिम'.
सत७)