________________
२२
काव्यमाला। बिम्ब कठोरबिसकाण्डकडारगौरै
विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति ॥' 'सद्योमुण्डितमत्तहूणचिबुकप्रस्पर्धिनारङ्गकम्' इत्यादौ प्रसिद्धिरहितोपमायामव्याप्तिः । तदप्यापाततः, सामान्यपदस्य धर्ममात्रपरत्वाद्गुणादीनामित्याद्यदोषाभावात् । 'प्रसिद्धरनुरोधेन' इत्यस्य च 'यदुपमायां यस्य प्रतियोगित्वानुयोगित्वादिकं प्रसिद्धं तदनतिक्रमेण' इत्यर्थः । अतो न प्रतीपादौ व्यभिचारः । 'उद्गर्भ-' इत्यादौ न हूणरमणीस्तनादिकमप्रसिद्धम्, किं तु तदुपमानत्वमात्रम् । तत्कल्पनेऽपि प्रसिध्यनतिक्रमस्य सत्त्वान्न दोषः। नहि तेषामुपमानत्वाभावोऽपि प्रसिद्धो येन तद्विरोधः स्यात् । यदपि-"तैः स्वयं लक्षणमुक्तम्,
'व्यापार उपमानाख्यो भवेद्यदि विवक्षितः ।
क्रियानिष्पत्तिपर्यन्तमुपमालंकृतिस्तु सा ॥' इति । उपमितिक्रियानिष्पादको व्यापार उपमितिक्रियानिष्पत्तिपर्यन्तं विवक्षितश्चेत्, उपमालंकारः । व्यतिरेके तु साक्षात्परम्परया वोपमितिक्रि
त्वेन यवगोधूमादिवदवयवसाम्याभावादित्यर्थः । प्रसिद्धिरहितेति। तथा च तत्र प्रसिद्धरनुरोधेनेत्यंशो नास्तीति भावः । सामान्यपदस्येति । अवयवसामान्यपदस्येत्यर्थः । धर्ममात्रेति । ततश्च तत्रापि तत्संभवान्नाव्याप्तिः । यद्यपि गुणादीनां जन्यधर्मा(ना)श्रयत्वाद्धर्मान्तरं तादृशं तत्र नास्त्येव, तथापि तद्वृत्तिवैजात्यमादायैव तत्र साम्यनिर्वाह इति भावः । द्वितीयदोषमुद्धरति-प्रसिद्धेरिति । प्रतियोगित्वाद्यश एव प्रसिद्ध्यनुरोध इत्यस्य फलमप्याह-अतो नेति । धयेशप्रसिद्धिपरत्वे तु तत्रापि तत्सत्त्वाद्वयभिवारो दुर्वारः स्यात् । उपमानाख्य इत्यस्य व्याख्यानमाह-उपमितिक्रियेत्यादि । क्रियानिष्पत्तीत्यत्रत्यं क्रियापदं व्याचष्टे-उपमितीति । व्यभिचारवारणप्रकारमाह-व्यतिरेके त्विति । साक्षादिति । 'मुखेन निष्कलङ्केन न समस्तव चन्द्रमाः' इत्यत्र साम्यस्यैव निषेधात् । परम्परयेति । 'नैवान्यतुच्छजनवत्सगर्वोऽयं महाधृतिः' इत्यत्र सगर्वत्वनिषेधेनार्थतः सादृश्याभावपर्यवसानात् ।
१. 'वा सादृश्यवर्णनायाः'.