________________
अलंकारकौस्तुभः ।
२३ याया अतिपत्तेर्न व्यभिचारः । अनन्वयेऽपि स्वेतरोपमाननिषेधे वस्तुतोऽनुपमत्व एव तात्पर्यात्तदनिष्पत्तेः । तदुक्तं भामहेन
'यत्र तेनैव तस्य स्यादुपमानोपमेयता ।
असादृश्यविवक्षातो वदन्ति तमनन्वयम् ॥' प्रतीपेऽपि
'आकर्णय सरोजाक्षि वचनीयमिदं भुवि ।
शशाङ्कस्तव वक्रेण पामरैरुपमीयते ॥' इत्यादौ यत्र तदनिष्पत्तिर्न तत्र व्यभिचारः । यत्र तु
'गर्वसंभाव्यमिमं लोचनयुगलेन किं वहसि भद्रे ।
सन्ति सदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ॥' इत्यादौ निष्पत्तिः, तत्रोपमैवेति न तदतिव्याप्तिः । उपमेयोपमायामपि लक्ष्यत्वात्तथैव । न च–सादृश्यवर्णनाया अविशेषात्कथमनन्वयप्रतीपादिवैषम्यम्-इति वाच्यम् । प्रतीपादावुपमितिक्रियाया निष्पत्तेः, अनन्वये च तदनिष्पत्तेः, उपमापदप्रवृत्तिनिमित्तसत्त्वासत्त्वयोरेव वैषम्यप्रयोजकत्वात् । अत एव काव्यप्रकाशादावनन्वयव्यावर्तकमेव विशेषणं दत्तम्, न तु प्रतीपादिव्यावर्तकमपि-" इति । __ अत्र न्यायपञ्चाननादयः- "उपमितिक्रिया नाम साधर्म्यनिष्पत्तिः । सा चानन्वयेऽप्यस्त्येव । भेदगर्भतप्रतीतिश्चेत्, भेदनिवेशेन तद्वारणमेव किंमूलकम् । भेदगर्भतज्ज्ञानादेव विजातीयोपमितिक्रियानिष्पत्तिः-इति चेत् , 'गोसदृशो गवयः, कुमुदमिव मुखम्' इत्यादावपि स्यात् । विलक्षणसाधर्म्यज्ञानात्-इति चेत्, अनन्वयेऽप्यस्तु । नच-तत्र निरुपमत्वप्रतीवस्तुत इति । स्वसादृश्येन तथानुत्कर्षात् । अनुपमत्वतात्पर्योशे प्राचीनसंमतिमाहतदुक्तमिति । प्रतीपालंकारे द्वितीयभेदे क्वचित्सादृश्यनिष्पत्तिः क्वचिच्च नेति वश्यते । तत्रान्त्ये लक्षणाभावादेवातिव्याप्तिपरिहारमाह-आकर्णयेति । आये लक्ष्यत्वादेव नातिव्याप्तिरित्याह-यत्र त्विति । तथैवेति । नातिव्याप्तिरित्यर्थः । एवं चित्रमी. मांसोक्तदीक्षितलक्षणं सव्याख्यानमुपन्यस्य तत्र जयरामभट्टाचार्योक्तदोषमुपन्यस्यतिअत्र न्यायेति । स्वेतरसाधर्म्यविरहस्य स्वसाधर्म्यस्य च युगपत्प्रतीतिसंभवेऽपि आद्यस्यैव १. 'तनार्थमेव'. २. 'साम्य'.