________________
काव्यमाला । तेर्नैवम्-' इति वाच्यम् । खेतरसाधर्म्यविरहरूपस्य निरुपमत्वस्य स्वसाधर्म्यस्य च युगपत्प्रतीत्यविरोधात् । किंच-उपमितिक्रियावैजाये मानाभावः। तद्वैनात्यप्रयोजकाद्रसवैजात्यस्यैवोचितत्वात् । नहि रूपकोप्रेक्षादौ क्रियावैजात्यमलंकारत्वप्रयोजकम्-" इति प्राहुः।।
रसगङ्गाधरकृतस्तु-"वर्णनस्य विलक्षणशब्दात्मकस्य विलक्षणज्ञानात्मकस्य वा शब्दवाच्यताविरहेणार्थालंकारताबाधः । वर्णनस्य सर्वथैवाव्यगयत्वात् 'स्वनिषेधापर्यवसायि अदुष्टव्यङ्गयसादृश्यवर्णनमुपमा' इति तदुक्तफलितलक्षणेऽव्यङ्गयत्वविशेषणं व्यर्थमित्यर्थः । यदि तु-वर्णनविषयीभूतं तादृशसाधर्म्यमुपमा-इत्युच्यते, तदापि 'गौरिव गवयः' इत्यादौ 'कालोपसर्जने च तुल्यम्' इति पाणिनिसूत्रोक्तसादृश्यादौ चा
चमत्कारजनकत्वादलंकारत्वम् , नान्त्यस्येत्यपरितोषादाह-किं चेति।वैजात्य इति । भेदगर्भसादृश्यज्ञानजन्यतावच्छेदकत्वेन तदभिमत इत्यर्थः । ननु ततो रसवैजात्यस्योपमितिक्रियावैजात्यस्य वा कल्पने विनिगमकाभाव इत्यत आह-नहीति । तथा चालंकारत्वानुपपादकक्रियावैजात्यस्य कल्पनानुपयोगाद्रसवैजात्यकल्पनमेवाहम्, रसस्य सर्वप्रधानतया तदङ्गोपकारापेक्षया प्रधानोपकारस्यैवोचितत्वादिति भावः । घट इव पटो द्रव्यमित्यादिवारणाय विलक्षणशब्दति । ज्ञानेति । तादृशशब्दप्रयोगहेतुभूतेत्यर्थः । उभयत्रापि वैलक्षण्यं चमत्कारजनकतावच्छेदकत्वेनानुभवसिद्धम् । बाध इति । वर्णनस्यैव दीक्षितोक्तरीत्या विशेष्यत्वात्तस्य चार्थालंकारत्वानुपपत्तेः । शब्द. व्यापारगम्यस्येवार्थत्वादिति भावः । न च शब्दज्ञानयोरपि तत्पदवाच्यत्वमस्त्येवेति वाच्यम् । तदुपमाप्रतिपादकपदबोध्यत्वविरहात् । सर्वथैवेति । वाच्यायां व्य
यायां चोपमायामित्यर्थः । अव्यङ्गयत्वादिति । व्यर्थमिति वक्ष्यमाणे हेतुत्वेनान्वयः। शब्दस्य वक्तृनिष्ठज्ञानस्य वा तयङ्ग्यत्वविरहात् । अदुष्टव्यङ्गयेति । नअर्थस्योभयत्रान्वयः । उक्तदीक्षितकारिकायामव्यङ्गयत्वविशेषणाभावादाह–फलितेति । कारिकाव्याख्याने दीक्षितैस्तथा फक्किकालिखनादित्यर्थः । व्यर्थमिति । वाच्योपमाव्यावृत्त्यर्थे ह्यव्यङ्गयेत्युक्तम् । वर्णनस्यैवोपमात्वे तु तस्य सर्वदाप्यवाच्यत्वादतिप्रसक्तरेवाभावात्तद्वारकमव्यङ्गयत्वविशेषणं व्यर्थमित्यर्थः । विशेषणविशेष्यभावव्यत्यासेन लक्षणविवक्षायां दोषाभावमाशङ्कयाह-यदि त्विति । ननु न देयमेवोपमितिक्रियानिष्पत्तिविशेषणम्, यद्वा चमत्कारजनकवर्णनविषयीभूतं सादृश्यमुपमितिक्रियानिष्पत्ति
१. 'जात्यात्प्र'. २. 'स्य'.