________________
अलंकारकौस्तुभः ।
-
तिव्याप्तिः । नै च — 'चमत्कारिविषयक कविव्यापारस्यैव वर्णनपदार्थत्वात्, प्रकृते च चमत्काराभावान्न दोषः -- इति वाच्यम् । चमत्कारित्वस्य निवेशे उपमितिनिष्पत्तिविशेषणवैयर्थ्यात् । अनिष्पन्नेनापाततः प्रतीयमानेन सादृश्येन चमत्कारानुपपत्तेः । किं च ।
'स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः । शशाङ्कविम्बतो मेरौ लम्बमान इवोरगः ॥'
इत्यादौ मुख्यवाक्यार्थभूतत्वेनानलंकारभूतायामुपमायामतिव्याप्तिः, उपमितिक्रियानिष्पत्त्यादिसत्त्वात् । नच इयं लक्ष्यैव — इति वाच्यम्, ध्वन्यमानोपमावारणप्रयासवैयर्थ्यात् । नह्यत्रोपमानोपमेयसादृश्यादुपमाखरूपादतिरिक्तो वाक्यार्थः, येनोपमानमलंकुर्यात् । किंच -सादृश्योपादानमनर्थकम्, 'उपमितिक्रियानिष्पतिमद्वर्णनम्' इत्यत एवेष्टसिद्धेः - " इत्याहुः ।
तत्रेदं चिन्त्यम्—'स्तनाभोगः -' इत्युत्प्रेक्षैव, उक्तविधोरगस्याप्रसिद्धेः । यत्तु — कविकल्पितोपमाया निर्विषयत्वापत्तिः — इति, तन्न, उपमानतावच्छेदकविशिष्टोपमानत्वाभिमतस्य प्रसिद्धौ तदुपमानत्वकल्पनस्य तद्विषयत्वात् । अत एव सर्वत्र 'ऊगर्भहूणरमणी -' इत्यादिकमेव कल्पितोपमोदाहरणं लिखितम् । अन्यथा 'न नित्यमस्मिन्परिपूर्णता - ' इत्यादीनामप्युत्प्रेक्षात्व भङ्गापत्तेः । अभ्युपेत्यापि ब्रूमः - "अलंकार्यवाक्यार्थस्याभावादनलंकारत्वम् -' इत्ययुक्तम् । नहि ' वाक्यार्थ एवालंकार्यः' इति नियमे प्रमाणमस्ति । सादृश्येन मुखस्यैवोत्कर्षात्तस्य विभावतया
२५
मत्सादृश्यवर्णनम् वा उपमेति लक्षणद्वये तात्पर्यमित्यस्वरसादाह - किं चेति । मुख्यवाक्यार्थेति । क्रियाया एव वाक्यार्थे मुख्यविशेष्यत्वात् भानरूपसामान्यधर्मात्मकक्रियाया एवात्रोपमात्वाद्वाक्यार्थे तस्याः प्राधान्यमित्यर्थः । अनलंकारेति । परोत्कर्षाधायकस्यैवालंकारस्वात्प्राधानस्य च तदभावादित्यर्थः | वैयर्थ्यादिति । व्यङ्गयोपमाया अलक्ष्यत्वे हि प्राधान्यमेव बीजम् । तस्य च वाक्यार्थभूतोपमायामपि सत्वेन वैषम्यस्यायुक्तत्वात् । पदार्थोत्कर्षकत्वेनैवालंकारत्वमित्यत्र बीजमाह - तस्य
१. 'नापि'.
४