________________
२६
काव्यमाला |
तदुत्कर्षेणैव रसोत्कर्षात् । अत एव 'यत्रान्यसादृश्यप्रयुक्तोपमेयोत्कर्ष विवक्षा, तत्रोपमा' इति न्यायपञ्चाननादयः । किं चैवम् — 'स्वप्रेषु समरेषु त्वां विजयश्रीर्न मुञ्चति । प्रभावप्रणतं कान्तं स्वाधीनपतिका यथा ॥' इति काव्यप्रकाशकारोक्तमप्युदाहरणमसंगतं स्यात् । एवम् - 'हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते ।'
इत्याद्यपि । किं बहुना -
'विभाति वदनं तस्या नासाग्रस्थितमौक्तिकम् । अलक्षितबुधाश्लेषं राकेन्दोरिव मण्डलम् ॥'
इति त्वदीयोपमोदाहरणमप्यनुपपन्नं स्यादिति क्रमेण सकलमाकुलं स्यात् । तदाहु:
'बालस्य दीपकलिकाक्रीडयेव नगरदाहः' इति ।
अथ – 'प्राचीनानां व्यङ्गयोपमाव्यावर्तक विशेषणानुपादानात्प्रधानभूतोपमाया अप्यलंकारैत्वं स्वीकर्तुमुचितमिति नानुपपत्तिः, दीक्षितानां तु
विभावतयेति । रसोत्कर्षो ह्यलंकारेण न साक्षादाधीयते, न वा द्वारान्तरेण, किं तु रसाङ्गभूतोत्कर्षाधानद्वारेणैव तदङ्गभूताश्च विभावानुभावव्यभिचारिण एव तत्समूहालम्बनत्वाद्रसस्य । तदुक्तं भरतेन -- 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति । ततश्च विभावादिभूतस्य मुखादेरुपमेयोत्कर्षजनने परम्परया रसोत्कर्षः, अङ्गोत्कर्षेण प्रधानोत्कर्षस्य युक्तत्वात् । ' उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिवदलंकारास्ते ऽनुप्रासोपमादयः ॥ इति । अर्थोपकारद्वारा रसोपकारकत्वस्यैवार्था`लंकारलक्षणस्योक्तत्वादित्यर्थः । तत्रैव प्रामाणिकसंमतिमाह – अत एवेति । वाक्यार्थभूतोपमाया अनलंकारत्वे ग्रन्थविरोधमाह -- किं चैवमिति । काव्यप्रकाशोदाहरणविरोधमुक्त्वा कुवलयानन्दोदाहरणविरोधमप्याह — एवं हंसीवेति । प्रन्थान्तरविरोधमुक्त्वा रसगङ्गाधरोक्ततदीयोदाहरणस्यैव विरोधमाह -- किं बहुनेति । दीक्षितमतादेषां विशेषमाशङ्कते - अथ प्राचीनेति । स्पष्टमन्यत् । यदपि चित्रमीमांसायां प्रतीपस्योपमालक्षणलक्ष्यत्वे प्राचीनसंमतिर्दर्शिता । यत्काव्यप्रकाशे अनन्वयव्यावर्तनाय भेदरूपमेव विशेषणं दत्तम्, न तु प्रतीपव्यावर्तकमपीति । तच्चिन्त्यम् ।
१. 'धवला'. २. ‘स्थिति'. ३. 'रत्वमुचितम् ' .