________________
अलंकारकौस्तुभः ।
२७
व्यङ्गयोपमाया अलंकारत्वमसंमन्यमानां मुख्यवाक्यार्थभूतोपमाया अपि नालंकारत्वं स्वीकर्तुमर्हम् । उभयोः प्राधान्यविशेषणत्ववैषम्ये प्रमाणामावात् -' इति चेत्, न, 'मुख्यव्यङ्ग्यस्यानलंकारतयैव धर्मिग्राहकमानेन
तद्व्यावृत्तेरप्यवश्यं तदभिमतत्वात् । अन्यथा प्रतीपस्य पृथग्व्युत्पादनानुपपत्तेः । यत्तु तैरुक्तम् —' उपमेयोपमादेरुपमान्तर्गतत्वेऽपि व्यङ्गयादिकृत वैचित्र्यविशेषेण पृथग्ग्रहणं न विरुध्यते, परिणामस्य रूपकान्तभीवेऽपि तस्य पृथगुपादानवदिति । तदप्यसत् । परिणामस्य पृथगुपादानस्य तावत्काव्यप्रकाशकारं प्रति दृष्टान्तयितुमशक्यत्वात् । तेन परिणामस्यालंकारत्वानभ्युपगमात् । ननु परिणामस्यालंकारत्वानभ्युगमादित्ययुक्तम्, पार्थक्यानङ्गीकारेऽपि उपमाद्यन्तर्भावेन तस्यालंकारत्वाभ्युपगमात् । सत्यं अलंकारान्तरत्वानभ्युपगमादित्यर्थे तात्पर्यात् । एवं परिणामस्य पृथगुपादानं काव्यप्रकाशकृतो नास्तीति साध्यवैकल्पं दृष्टान्तस्येति । किं च चित्रमीमांसोत्तलक्षणस्योपमेयोपमालंकारोऽपि लक्ष्य इति तावदसंगतमेव, तस्य तृतीयव्यवच्छेद एव तात्पर्यमिति तत्रैव व्यवस्थापितत्वात् क्रियानिष्पत्तिपर्यन्तं विवक्षितस्य सादृश्यत्य च तैरुपमालक्षणत्वाङ्गीकारात् । कथं हि स्वातिरिक्तोपमानव्यवच्छेद फलकोऽनन्वयो लक्ष्यकक्षाबहिर्भूतः, परस्परातिरिक्तोपमानव्यवच्छेदफलकस्तु उपमेयोपमालंकारो लक्ष्यान्तर्भूत इति वैषम्यं स्यात् । आद्ये मुखे सादृश्यप्रतीतेः, पर्यन्ते त्वन्योपमानव्यवच्छेदप्रतीतेरुभयत्राप्यविशेषात् । व्यव - च्छेद्यनिष्ठैक्यानैक्ययोश्चाप्रयोजकत्वात् । यदपि तत्राभिहितम् ' उपमानोपमेयत्वयोग्ययोरर्थयोर्द्वयोः । हृद्यं सा धर्म्यमुपमेत्युच्यते काव्यवेदिभिः ।।' इति प्राचीनलक्षणे द्वयोरित्यनेनान्वये व्यभिचारवारणेऽपि उपमानस्योपमेयत्वकल्पनात्मके प्रतीपे द्वयोः पर्यायेणोपमेयत्वकल्पनात्मिकायां उपमेयोपमायां चातिव्याप्तिः, तयोः सादृश्यवर्णनसत्त्वात् । उपमात्वेन संग्राह्यत्वे तथैवानन्वयोऽपि संग्राह्यः स्यादिति तस्य बहिष्करणमनर्हम् । इति । तदप्यसत् । उपमानोपमेयत्वयोग्ययोरिति विशेषणस्य सरस्वतीकण्ठाभरणीयलक्षणोक्तरीत्या प्रसिद्ध्यनुरोधार्थकत्वात्प्रतीपोपमेयोपमयोश्च प्रकृतप्रतियोगिकसादृश्यस्य अप्रकृताश्रयत्वेन वर्णनादुक्तदोषासंभवात् । एतेन काव्यप्रकाशीये 'साधर्म्यमुपमा भेदे' इति लक्षणेऽनन्वयवारकं भेदग्रहणं व्यर्थम्, प्रतीपादावतिव्याप्तेः । तस्य संग्राह्यत्वेऽनन्वयस्यापि तथात्वापत्वेरित्यपि परास्तम्, प्रकृतोत्कर्षप्रयोजकत्वस्याप्यलंकारसामान्यलक्षणगतस्यात्रान्वयात् । प्रतीपे चोपमानतिरस्कारप्रयुक्त एवोत्कर्षो मुखादेः । उपमेयोपमायामपि उभयोः परस्परातिरिक्तोपमानव्यवच्छेदप्रयुक्त एवातिशयः, न तु सादृश्यप्रयुक्त इति दोषानवकाशात् । नन्वेवमनन्वयवारकं भेदपदमपि व्यर्थम्, अनन्वये स्वेतरोपमानव्यवच्छेदस्यैव चमत्कारप्रयोजकतया सादृश्यस्य तथात्वाभावादिति चेत्, स
I
१. ‘वाच्यार्थ’.