________________
२८
काव्यमाला। प्रसिद्धेः, वाक्यार्थस्य च रसाद्यङ्गतया सर्वाभ्युपगतत्वात्' इति बीजसत्त्वा दित्यादि खयमूह्यमिति दिक् । एतां प्रथमं द्विधा विभजते
वाचकधर्मसमत्वप्रतियोग्यनुयोगिनां ग्रहे पूर्णा ॥ ८॥ यथा-'चन्द्र इव मुखं रमणीयम्' इत्यत्र । इह हि—'इवपदमुपमावाचकम्, रमणीयत्वं साधारणधर्मः, चन्द्रः साम्यप्रतियोगी, मुखं तदनुयोगि', इति चतुर्णामप्युपादानम् । अत इयं पूर्णा । तत्र साधारणधर्मस्य क्वचिदनुगामितया प्रयोगः।
यथा'उक्खअदुमं व सेलं हिमहअकमलाअरं व लच्छिविमुक्कम् ।
पीअमइरं व चसअं बहुलपओसं व मुद्धअन्दविरहिअम् ॥' उत्खातद्रुमत्वमत्र समुद्रशैलोभयानुगतम् ।
त्यम् । व्यभिचारवारणमात्रे तात्पर्यात् । यद्वा भिद्यते उत्कर्षवत्तया बोध्यत इति व्यु. त्पत्या प्रकृतस्य मुखादेरुपादानम् । ततश्च प्रकृतमात्रानुयोगिकत्वेन प्रतीयमानं साधhमुपमेत्यर्थः । प्रकृतोत्कर्षप्रयोजकत्वं च सामान्यत एव प्राप्तम् । प्रतीपे च प्रकृतानुयोगिकत्वेन साम्यस्यानवभासात् । उपमेयोपमायां च तदन्यचन्द्राद्यनुयोगिकत्वेनापि तस्य प्रत्ययात् । प्रकृतमात्रानुयोगिकत्वेन भानमुभयत्रापि नास्तीति न व्यभिचारः । अनन्वये व्यभिचारवारणं तु साधर्म्यघटकभेदपदार्थेनैव बोध्यम् । नन्वेवं भेदग्रहणमनन्वयव्यवच्छेदायेति तद्वन्थो न संगच्छत इति चेन्न, अनन्वयपदेन न विद्यते लक्षणस्यान्वयो यत्रेति व्युत्पत्या लक्ष्यतावच्छेदकावच्छिन्नत्वानभिमतेत्यर्थकतया प्रतीपादिपरत्वेन व्याख्यानात् । अथवास्तु यथोक्तग्रन्थो यथाश्रुत एव, किं तु प्रकृतान्यानुयोगिकत्वेनाप्रतीयमानत्वं प्रतीपादिवारणाय पृथगेव विशेषणं देयम् । इत्यादिसर्वमभिसंधायाहइत्यादीति । संक्षेपः । प्रथममिति । चतुष्टयघटितपूर्णोपमाव्युत्पादने तदन्यतमलो. पिन्या लुप्तायाः सुग्रहत्वात् । तथा च लुप्तोपमाप्रयोजकलोपप्रतियोगिघटितत्वेन पूर्व तद्वयुत्पादने लाघवमित्यर्थः । उक्ख इति । सेतुकाव्ये समुद्रवर्णनम् । 'उ. त्खातद्रुममिव शैलं हिमहतकमलाकरमिव लक्ष्मीविमुक्तम् । पीतमदिरमिव चषकं बहु. लप्रदोषमिव मुग्धचन्द्र विरहितम् ॥' 'अथ प्रेक्षते रघुतनयः' इत्यादिस्कन्धकस्थं समुद्रमिति पदेनैषां विशेषणानामभेदान्वयः । बहुलः कृष्णपक्षः । तत्रापि रात्री भागान्तराव
१. 'गामिप्रयोग