________________
अलंकारकौस्तुभः ।
२९
स्यादेतत् — अत्रैकरूपेण धर्मस्योभयान्वयाभावात्कथमनुगामित्वम् ।
एवम् —
'वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥'
इत्यन्त्रापि । अत्र हि — वागर्थयोर्वाच्यवाचकभावरूपः संबन्धः, पार्वतीप रमेश्वरयोस्तु संयोगरूपः, इति संबन्धभेदात् । नच — संबन्धत्वेन तत् - इति वाच्यम्, 'येन रूपेण यस्य धर्मस्योपमानगामित्वम् तेनैव रूपेणोपमेयगामित्वम्' इत्यनुगामित्वलक्षणमवश्यं वाच्यम् । अन्यथोपचारस्य विधान्तरत्वोत्त्यनुपपत्तेः ।
'उद्भवन्तमुदिताचिषं ततो भानुमन्तमिव हेमभूभृतः । पङ्कजैरिव कुमारमीक्षणैर्विस्मयेन विकचैः पपुर्जनाः ॥' इत्यत्र विकचत्वं पुष्पधर्म ईक्षणेषूपचरितः । न च तत्संभवति । मुख्यलक्ष्योभयसाधारणविकचत्वस्योभयत्रापि सत्त्वात् । तदर्थं च पुष्पेषु विकचत्वं विजातीयपत्रविभागवत्वम्, नेत्रेषु चोपचारान्निमेषराहित्यं वाच्यम्, अत एकेन रूपेण विकचत्वमुभयत्र नास्तीति तद्भेदो वाच्यः । एवं 'संपृक्तौ' इत्यत्रापि येन रूपेण संबन्धस्य वागर्थयोर्बोधः, न तद्रूपेण पार्वतीपरमेश्वरयोरपीति कथमनुगामित्वसंभवः । अथ " संबन्धत्वं 'संबन्धौ' इति घीसाक्षिकः संयोगादिसाधारणो धर्मविशेषः । तथा च पर्यवसितधर्मयोर्यत्रैकधर्मावच्छिन्नत्वं स एवानुगामित्वपदार्थः । अस्ति च वाच्यवाच
च्छेदेन चन्द्रसत्वात् – प्रदोषेति । शुक्लपक्षे प्रदोषेऽवश्यं चन्द्रसत्वात् — बहुलेति । पारिजात लक्ष्मीमदिराचन्द्राणां समुद्रान्मन्थनेन निर्गमो वृत्त इत्येवं वर्णनम् । अनुगामित्वनिर्वचनाय शङ्कामवतारयति - स्यादेतदिति । एकत्रोत्खातत्वं विजातीयभूसंयोगरहितत्वं समुद्रपक्षे चोद्धतत्वमिति विशेषात् । चित्रमीमांसोदाहरणमपि विचारयितुमुपन्यस्यति — एवं वागर्थाविति । सेतुश्लोके भिन्नधर्मनिबन्धना मालोपमा, अत्र तु शुद्धोपमेति भेदः । अनुगामित्वं तूभयत्र तुल्यम् । ननु विकचैरित्यत्र मिथः संयोगजनक - क्रियाराहित्यस्योभयसाधारणत्वेऽपि तस्य शाब्दबोधे प्रकारत्वाभावान्न दोषः, इत्याशङ्कय
१. ‘संबन्धतावच्छेदकभेदात्कथमनुगामित्वम्'. २. 'च निमेष'.