________________
३०
काव्यमाला ।
कभावसंयोगसंबन्धयोरपि संबन्धत्वावच्छिन्नत्वम्-' इति चेत्, तहिं 'विकचैः' इत्यत्रापि मिथःसंयोगजनकक्रियाराहित्यमुभयत्राप्यविशिष्टमिति तद्दोषतादवस्थ्यम् । तत्र संयोगस्य पत्रपक्ष्मादिघटिततया भेदः इति चेत् । संबन्धस्यापि विभागादिनिरूप्यतया तदविशेषात् । किं च-अनुगामिधर्मस्य कीदृशेनोभयसाधारणधर्मेणावच्छिन्नत्वं विवक्षितम् । न तावयेन केनचिदेव, प्रमेयत्वादिना सर्वधर्माणां साजात्यात्प्रकारान्तराणां विलयापत्तेः । नापि द्रव्यत्वादिना तत्तद्धर्मेण, बिम्बप्रतिबिम्बभावस्थले द्रव्यत्वस्य हारनिर्झरोभयवृत्तितया तत्राप्यनुगामित्वापत्तेः । नापि स्वजन्यशाब्दबोधप्रकारीभूतधर्मेण, वस्तुप्रतिवस्तुभावस्थलेऽप्यनुगामित्वापत्तेः ।
'यान्त्या मुहुर्वलितकंधरमाननं त
दुद्वत्तवृन्तशतपत्रनिभं वहन्त्या । दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या
गाढं निखात इव मे हृदये कटाक्षः ॥' इत्यत्रापि वलनोद्वर्तनयोरभेदेन स्वजन्यशाब्दबोधप्रकारीभूतधर्मावच्छिन्नत्वात् । नाप्येकपदजन्यबोधप्रकारीभूतधर्मेण, तदोषानपसरणात् । नच'भिन्नवृत्येकपदजन्यप्रकारीभूतधर्मेण उक्तस्थले तु वलनोद्वर्तनयोरभेदेन वलनत्वस्य न भिन्नवृत्तित्वम्, भिन्नत्वं च स्वावच्छिन्नप्रतियोगिताकभेद
तत्रापि दोषमभिधित्समानस्तं पक्षमवतारयितुं विकल्पमुखेनाह-किं चेत्यादि । प्रकारान्तराणामिति । उपचारबिम्बप्रतिबिम्बमावादीनां वक्ष्यमाणानामित्यर्थः । विलयेति । पृथक्परिगणनानुपपत्तेरित्यर्थः । तदोषानपेति । वलनत्वस्यैकपदजन्यबोधप्रकारत्वसत्त्वात् इत्यर्थः । भिन्नवृत्तीति विशेषणादुक्तव्यभिचारवारणं दर्शयतिउक्तस्थले त्विति । अभेदेनेति । वलितोद्वृत्तपदाभ्यां बिम्बप्रतिबिम्बभावापन्नकं धरावृन्तोभयविशेषणत्वेन एकस्यैव पदार्थस्योपस्थापनात् । अन्यथात्र वस्तुप्रतिवस्तुभाव इति दुर्लभं स्यादिति भावः । ननु वलनघटोभयभेदस्य वलनेऽपि सत्वाद्दोषतादवस्थमेवेत्यत आह-भिन्नत्वं चेति । स्वं धर्मतापर्याप्त्यधिकरणं एवं सत्यव्याप्तिरित्याह
१. 'प्यस्तीति'.