________________
३१
अलंकारकौस्तुभः । वत्वम् । 'वागविव' इत्यादौ तु वाच्यवाचकभावसंयोगयोर्भेदः, तदुभयत्र च संबन्धत्वम्-' इति वाच्यम् । संयोगादेरपि संबन्धत्वावच्छिन्नप्रतियोगिताकपरस्परप्रतियोगिकभेदविरहात् । भेदप्रतियोगितावच्छेदकसंयोगत्वादेश्चैकपदजन्यबोधप्रकारत्वाभावाच्च । न च-परस्परवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदभेदवत्वे सति तादृशपदनन्यबोधप्रकारीभूतधर्मावच्छिन्नत्वमेव तथा—इति वाच्यम्, तथापि रमणीयत्वाद्यसंग्रहप्रसङ्गात् । अथ—साधारणधर्मवाचकपदजन्यबोधप्रकारीभूतधर्मस्य साधारणधर्मद्वये सत्त्वेऽनुगामित्वमिति विवेकः । 'संपृक्तौ' इत्यत्र च तादृशप्रकारस्य संबन्धत्वस्योभयत्र वृत्तेः । हारादौ तु हारत्वादेनिझरादाववृत्ते तिव्याप्तिः । द्वयत्वं चाविवक्षितम् । अतो यत्रैकरूपेणैव साधारणधर्मपर्यवसानम्, तत्रापि नातिव्याप्तिः । यथा-'उक्खअदुमं व सेलम्' इत्यादौ त्वदुक्तोदाहरणे । न चैवं श्लेषेऽप्यनुगामिधर्मः स्यात् । ___ 'नरसिंह महीपाल सर्वोपरि गणस्तव ।
पारावारसमानत्वं दधाति स्वपदच्युतः ॥ इत्यत्र 'स्वपदच्युतपदजन्यबोधप्रकारीभूतधर्मस्याच्युतत्वस्य पदभ्रष्टत्वस्य च प्रत्येकमुभयत्र सत्त्वादिति वाच्यम् ।' प्रतीतेरेकपदजन्यत्वस्य वाच्यत्वात् 'स्वपदच्युतः' इत्यत्र प्रतीतेभिन्नभिन्नपदजन्यत्वात् । न चैवमपि संयोगादेरिति । वाच्यवाचकभावसंयोगयोयोरपि संवन्धत्वावच्छिन्नत्वात्सामान्यस्य खावच्छिन्नवृत्तिभेदप्रतियोगितावच्छेदकत्वानुपपत्तेरित्यर्थः । प्रकारत्वाभावादिति । एतदनुपादाने तु बिम्बप्रतिबिम्बभावादावुक्तातिव्याप्तितादवस्थादित्यर्थः । एवं शा. ब्दबोधप्रकारीभूतधर्मावच्छिन्नप्रतियोगिताकत्वमेव भेदविशेषणमिति पक्षे अयं दोष उक्तः, अधुना तदप्रकारीभूतेनापि पर्यवसिततद्वृत्तिना धर्मेणावच्छिन्नप्रतियोगिताकत्वमेव भेद. विशेषणमित्यत्र दोषाभावमाशङ्कते-न चेति । संयोगत्वावच्छिन्नभेदस्य वाच्यवाचकभावे तत्त्वावच्छिन्नभेदस्य च संयोगे सत्त्वात् । शाब्दबोधप्रकारीभूतसंबन्धावच्छिन्नत्वाच्च द्वयोर्दोषाभावः । बिम्बप्रतिबिम्बमावादौ तु विशेषणसत्वेऽपि शाब्दप्रकारीभूतधर्मावच्छिन्नस्वाभावादेव नातिव्याप्तिः । तथापीति । चन्द्रमुखवृत्तिरमणीयत्वयो रमणीयत्वावच्छिन्नप्रतियोगिताकभेदविरहात्तत्रानुगामित्वं न स्यादित्यर्थः । एकपदजन्यत्व. स्येति । प्रतीतिजनकपदे एकत्वविशेषणस्य देयत्वात् । तथा च साधारणधर्मवाचकैक. पदजन्यबोधेत्यादि पर्यवसितम् । पदजन्यत्वस्य प्रतीतौ प्रागेवोक्तत्वेन पुनस्तदुक्तौ प्रयो