________________
काव्यमाला ।
'गते तव भ्रातरि वत्स पञ्चतां चिराय नश्चान्द्रमसं कुलं महत् ।
अदृष्टसंतानतया न शोभते वनं हरेः प्राङ्मथनादिवोदधेः ॥'. इत्यत्र संतानपदजन्यबोधप्रकारीभूतयोरपि धर्मयोस्तथात्वेन तत्रत्यश्लेषेऽनुगामित्वप्रसङ्गस्य दुर्वारत्वमिति वाच्यम् , तत्र पुत्रपारिजातयोः साधारण्यपर्यवसानात्पारिजातत्वपुत्रत्वयोश्च सामानाधिकरण्याभावात् इति । न च-द्वयत्वस्याविवक्षितत्वोक्तेः कथमेवम्-इति वाच्यम्, यत्र द्वयोः साधारण्यपर्यवसानं तत्र द्वयत्वस्यापि विवक्षितत्वात् । अतो न दोषः-इति चेत्, मैवम् । 'पीतघट इव गुणवान्रक्तघटः' इत्यत्रानुगामित्वाभावप्रसङ्गात् । गुणत्वजातिमनङ्गीकुर्वतां गुणपदाद्रूपत्वरसत्वादिप्रकारेणैवान्वयबोधात् । रसे रूपत्वस्य रूपे च रसत्वस्याभावात् । वस्तुप्रतिवस्तुभावस्थलेऽप्यनुगामित्वप्रसङ्गाच्च । ननु-पर्यवसितसाधारणधर्मयोर्द्वयोरपि यत्रोपमान उपमेये च संभवः । यथा रूपरसयोः, तत्र साधारणधर्मावच्छेदकीभूतयो रूपत्वरसत्वयोमिथः सामानाधिकरण्याभावेऽप्यनुगामित्वमेव । यत्र तु पर्यवसितसाधारण्ययो!पमानोपमेयोभयवृत्तित्वम् । यथा'संतान' इत्यत्र, पारिजातस्य चन्द्रवंशेऽपत्यस्य नन्दनेऽसत्वात्तत्र नानुगामित्वं किंतु श्लेष एव-इति चेत्, तत्तुच्छम् । तथाहि-द्वयोः साधारणधर्मयोरुपमानोपमेयोभयवृत्तित्वं किं पर्यवसितसाधारणधर्मनिष्ठधर्मेण वदसि, उत साधारणधर्मवाचकपदजन्यबोधप्रकारीभूतधर्मेण । न प्रथमः, 'वागर्थाविव संपृक्तौ' इत्यत्रापि पर्यवसितसाधारण्ययोर्वाच्यवाचकभावसंयोगयोः साधारणधर्मनिष्ठसंयोगत्वादिधर्मेणोभयावृत्तित्वात् । अत एव न द्वितीयः, संबन्धत्वेनापि संयोगादेर्वागदाववृत्तेः । किं च द्वयत्वं जनाभावात् । भिन्नेति । खपत् शयानोऽच्युतो विष्णुर्यत्र स्वस्य पदादाज्यात् च्युत इति भिन्नानुपूर्वकशब्दप्रतिसंधानजन्यत्वादित्यर्थः । तथाप्यखण्डश्लेषस्थले व्यभिचारः स्यादित्याशङ्कते-न चेति । एकस्यैव शब्दस्योभयार्थकत्वाभ्युपगमादित्यर्थः । अनङ्गीकुर्वतामिति । नवीनानामित्यर्थः । ननु चमत्कारजनकस्यैवालंकारत्वात्तत्प्रयोजकधमस्यैव चात्र निरूपणीयत्वान्नायं दोष इत्यस्वरसादाह-वस्तुप्रतिवस्तुभावेति । नन्वेकधर्मवृत्तिशाब्दप्रकारीभूतधर्मावच्छिन्नत्वमात्रं विवक्षितम्, अस्ति च वाच्यवाचकभाववृत्तितादृशशाब्दप्रकारीभूतसंबन्धत्वावच्छिन्नत्वं संयोगस्यापीत्यत आह-किं चे