________________
अलंकारकौस्तुमः । विवक्षितं न वा । नाद्यः, 'चन्द्र इव रमणीयं मुखम्' इत्यादावनुगामित्वानुपपत्तेः । नान्त्यः, वस्तुप्रतिवस्तुभावस्थलेऽपि तदापत्तेः । अथ-साधारणधर्मवाचकपदजन्यबोधप्रकारीभूतधर्मावच्छिन्नसाधारणधर्मयोर्यत्र प्रत्येकोभयवृत्तित्वम् , तत्र तावतैवानुगामित्वमिति संतानपदजन्यबोधप्रकारीभूतपुत्रत्वपारिजातत्वयोश्च नोभयावच्छेदकत्वम्-इति चेत् । न । द्वयत्वस्यावश्यमविवक्षीणतया वस्तुप्रतिवस्तुभावेऽतिव्याप्ते । अथ—साधारणधर्मवाचकपदजन्यबोधप्रकारीभूतधर्मावच्छिन्नसाधारणधर्मस्थल एवोक्तविभागः, संतानेत्यत्र तु संतानत्वं न वाच्यतावच्छेदकम्, अपि तु पुत्रत्वाद्येव, संबन्धपदस्य तु संबन्धत्वं वाच्यतावच्छेदकम्, एवं च साधारणधर्मविशेषवाचकपदजन्यबोधप्रकारीभूतसाधारणधर्मस्य यत्र तत्सामान्यवाचकपदजन्यबोधप्रकारीभूतधर्मावच्छिन्नत्वम्, तत्रैवोक्तविभाग इति न दोषः । संतानेत्यत्र हि साधारणधर्मविशेषवाचकपुत्रादिपदनन्यबोधे प्रकारीभूतं पुत्रत्वादिकं तत्सामान्यवाचकसंतानपदजन्यबोधेऽपि प्रकारः, संपृक्तावित्यत्र तु संयोगादिपदजन्यबोधे संयोगत्वम्, संबन्धादिपदबोधे च संबन्धत्वमिति शेषात् । वस्तुप्रतिवस्तुभावे तु धर्मेक्यनियमेन सामान्यविशेषवाचकपदभेदाभावान्न दोषः-इति चेत् । मैवम् । यत्र तु तत्पदं वह्निघटोभयपरतया विवक्षितं यथा 'भूतलमिव पर्वतस्तद्वान्' इति, तत्र वह्निघटपदबोधप्रकारीभूतं वह्नित्वघटत्वादिकमेव तत्पदजन्यबोधे प्रकारः, सर्वनाम्नां बुद्धिस्थत्वरूपेण तेन तेनैव प्रकारेण शक्तेः । ततो घटत्वादिप्रकारकस्यैव बोधस्योदयात् । तथा च तत्रानुगामित्वं न स्यादिति । एवं 'चन्द्र इव मुखं तद्वत्' इत्यादौ रमणीयत्वाह्लादकत्वोभयपरेऽपि । किंच रमणीयत्वा
ति । न वाच्यतावच्छेदकमिति । पुत्रत्वादिप्रकारेणैव बोधादुभयसाधारणैकसंतानत्वकल्पने प्रमाणाभावात्सैन्धवादिपदवदिति भावः । सर्वनाम्नामिति । बुद्धिस्थत्वस्योपलक्षणीभूयशक्यतावच्छेदकानुगममात्रपरतया तत्प्रकारको बोधो न भवति, किंतु घटत्वादिप्रकारक एवेत्यर्थः । तत्रानुगामित्वाभावेऽपि पूर्वोक्तरीत्या क्षतिविरहादाहएवं चन्द्र इवेति । काव्ये एतादृशचमत्कारस्यानुभवकलहभयादनुगामित्वाभावस्य इष्टापत्त्यापि परिहर्तुं शक्यत्वाच्चाह-किंचेति । धर्मेति । धर्मवृत्तित्वं सामान्यविशे
५