________________
काव्यमाला।
दावनुगामित्वाभावापत्तिरेव दुर्वारैवेति । तस्मात् 'वागर्थाविव संपृक्तौ' इत्यादावनुगामित्वनिर्वचनं दुष्करमिति पर्यवसितम् । उच्यते । धर्मवृत्तिसामान्योपस्थापकपदैक्य एवानुगामित्वमिति व्यवस्था । धर्मत्वं च तद्धर्मतावच्छेदकतापर्याप्त्याधिकरणत्वम् । अत एकोऽनेको वेत्यत्र नादरः । तदिति तत्पदनिर्वाह्येत्यर्थः । अतो बहूनां मिश्रणस्थले नानुपपत्तिः । बिम्बप्रतिबिम्बभाववारणाय 'एकम्' इति सामान्यविशेषणं देयम् । तत एव श्लेषस्यापि वारणम् । धर्मश्च पर्यवप्सितः, चन्द्रविरहितमित्यत्र पर्यवसितस्यैवोपादानम् । 'संपृक्तौ' इत्यत्र तदुत्तरं पर्यवसानमिति तु विशेषः । ऐक्येति वस्तुप्रतिवस्तुभावनिरासः, तत्र धर्मैक्येऽपि पदभेदात् । अतश्च सामान्येऽप्येकपदं श्लेषवारणायैव देयमित्यलमतिपल्लवेन ।
षणम् । संपृक्तावित्यादि संग्रहार्थमाह-धर्मत्वं चेति । तद्धर्मतेति । धर्मतावच्छेदकतायाः पर्याप्तिर्यत्र रमणीयतत्वादौ तदधिकरणत्वमित्यर्थः । यथा श्रुतेऽवच्छेदकताया रमणीयत्वादिवृत्तितया रमणीयत्वादिरूपधर्मलाभानुपपत्तेः । यद्वा भावार्थो न विवक्षितः । ततश्च धर्मतावच्छेदकस्य रमणीयत्वत्वादेर्या पर्याप्तिस्तदाधारत्वमित्यर्थः । अथवा धर्मतारूपा चासावच्छेदकता चेति कर्मधारयः । तथा च धर्मता पर्यात्यधिकरणत्वमिति फलितम् । नादर इति । धर्मस्यैकत्वे एकस्यैव धर्मतापर्यात्यधिकरणत्वादनेकत्वे द्वयोरेवेति भावः । नन्वेवं 'चन्द्र इव संकोचितकमलं रमणीयं च मुखम्' इत्यादौ मिश्रणस्थले रमणीयत्वादेरनुगामित्वं न स्यात् , तन्मात्रस्य धर्मतापर्याप्त्यनधिकरणत्वात् । संकोचितकमलत्वस्यापि धर्मत्वादित्यतो व्याचष्टे-तत्पदेति । तथा च रमणीयपदनिर्वाह्या रमणीयत्वस्यैव धर्मता, न तु संकोचितकमलत्वादेरपीति न दोष इत्यर्थः । देयमिति । ननु तत्र ‘पदैक्ये' इत्यनेनैव व्यभिचारवारणात्सामान्येऽप्येकविशेषणं व्यर्थमिति चेन्न, हारवृत्तिहारत्वोपस्थापकहारपदस्य निर्झरवृत्तिनिर्झरत्वोपस्थापकनिर्झरपदस्य चैकत्वसत्त्वे न व्यभिचारसंभवात् । एवं तु तत्र धर्मद्वयवृत्त्येकसामान्योपस्थापकपदाभावान्न दोष इत्यर्थः । श्लेषस्यापीति । तत्रोभयवृत्त्येकसामान्याभावादित्यर्थः । नन्वैक्यपदं व्यर्थ बिम्बप्रतिबिम्बभावे पूर्वोक्तरीत्यैव व्यभिचाराभावादित्यत आह-ऐक्येतीति । ननु तर्हि सामान्ये एकत्वविशेषणं व्यर्थ बिम्बप्रतिबिम्बभावे पदैक्याभावादेव व्यभिचारविरहात् । न च प्रत्येकमेकत्वमस्तीति प्रागेव समाहितमिति वाच्यम्, प्रत्येकार्थस्य हारादेर्धर्मतापर्याप्त्यनधिकरणत्वात् । धर्मतापर्याप्त्यधिकरणवृत्तिसामान्योपस्थापकपदैक्येऽनुगामित्वमित्यस्य प्रागेवाभिहितत्वात् इत्यत आह-अतश्चेति । ततश्च बिम्बप्रति