________________
अलंकारकौस्तुभः ।
तिव्याप्तिस्तदवस्यैवेति चेत्, उच्यते—उभयविवक्षितसादृश्यप्रतियोगिताया अत्र भेदाभ्युपगमेन दोषाभावः । न च तदसंभवः, अतिरिक्त प्रतियोगि
नयनें शान्तर एतद्दुर्वारम् । चन्द्रत्वावच्छिन्नत्वात्तद्वारणे त्वंशान्तरेऽपि तद्दुर्लभमिति । 'चन्द्र इव मुखम्' इत्यंशे लक्ष्यत्वान्नातिव्याप्तिरिति परिहरति — उच्यते इति । उक्तरीत्या अंशतोऽपि लक्षणाभावमाशङ्कयाह – अतिरिक्तेति । मुखनिष्ठोपमेयतानिरूपितत्वविशिष्टायां प्रतियोगितायां मुखत्वावच्छिन्नत्वाभावसत्त्वादित्यर्थः । अनुपपत्त्यभावादिति । अंशतो लक्षणागमनरूपाया अंशान्तरेऽपि लक्षणगमनरूपायाश्च अनुपपत्तेरभावादित्यर्थः । तेन प्रतियोगित्वमतिरिक्तमिति पक्षेऽप्यवच्छेद कैक्ये तद्भेदानभ्युपगमादसंगतिरनाशङ्कया । ननु 'अत एव - ' इत्यादिकथनं प्रकृतानुपयुक्तम्, असंबद्धं च । तस्य हि प्रतीयमानायाश्चन्द्रसादृश्यप्रतियोगिताया ऐक्यात्तादृशबाधसत्त्वे मुखनिष्ठसादृश्यप्रतियोगित्वेन चन्द्रमवगाहमानं ज्ञानमपि न स्यादित्यर्थः । यथोक्तबाधबुद्धौ च तादृशप्रतियोगिताश्रयभेदः तादृशप्रतियोगितात्यन्ताभावो वा चन्द्रे विशेषणम् | 'चन्द्र इव चन्द्र:' इत्यत्र तु चन्द्रः प्रतियोगितया सादृश्ये, तच्चाश्रयतया चन्द्रे विशेषणम् । चन्द्र विशेष्यकप्रतियोगित्वाभावज्ञानं च सादृश्यविशेष्यकप्रतियोगित्वसंसर्गकचन्द्रप्रकारकताज्ञाने न प्रतिबन्धकम्, प्रतियोगित्वसंबन्धावच्छिन्नप्रतियोगिताकचन्द्राभावप्रकारकसादृश्यविशेष्यकबोधस्यैव तथात्वात् । अत एव उक्तबाधसत्त्वे 'चन्द्र इव चन्द्रः' इत्येतद्वाक्यार्थबोधेऽपि बाधकाभावः । सुतरां तु 'चन्द्र इव मुखम्' इत्यत्रेति चेत् सत्यम् । प्रकारान्तरेण व्याख्येयत्वात् । तथा हि- 'ननु शब्दबोध्यत्वं तावत्प्रतियोगितायां विशेषणं दत्तमेव, तच्च प्रकृतेः संसर्गतया शाब्दबोधविषयत्वरूपं प्रतियोगितायां वाच्यम् । तस्याश्च प्रतियोगितात्वेनैव संसर्गत्वम्, न तूक्तविशिष्टप्रतियोगितात्वेन मानाभावात् । तथा च ' यन्निष्ठोपमेयत्व निरूपितत्व विशिष्टायां यस्यां प्रतियोगितायाम्' इत्ययुक्तं तादृशरूपेण तस्याः संसर्गतानभ्युपगमेन तस्यां शब्दबोध्यत्वान्वयात् । मैवम्, निरूपितत्वस्य शब्दबोध्यत्वस्य च तस्याम् 'एकत्र द्वयम्' इति रीत्या लक्षणवाक्यार्थबोधे बाधकाभावात् वह्निसंयोगत्वस्य संसर्गतानवच्छेदकत्वेऽपि 'पर्वतो वह्निमान्' इत्यादौ 'वह्निसंयोगः 'संयोगत्वेन संसर्गः " इत्यादि व्यवहारात् । अतस्तत्र चन्द्र इव मुखमि - त्यंशे लक्षणसंगतिर्नान्यत्र । न हि तत्प्रतियोगितानिरूपकानुयोगितावच्छेदकमात्रमुपमेयतावच्छेदकपदेन विवक्षितम् त्वदुक्तरीत्या अंशतोऽपि लक्षणं नीयते, येनानन्वयांशेऽपि तत्स्यात् । किं तु यन्निष्ठोपमेयतानिरूपितत्वविशिष्टायां प्रतियोगितायामुपमेयतावच्छेदकावच्छिन्नत्वाभाव इति विवक्षितम् अस्ति चेदुपमांशे, नत्वनन्वयांशे । न हि तस्याश्च - न्द्रनिष्ठोपमेयतानिरूपितत्वविशिष्टप्रतियोगितात्वेन मुखनिष्ठोपमेयता निरूपकत्वम्, किंतु प्रतियोगितात्वेनैव । तथा च यन्निष्ठोपमेयतानिरूपितत्वावच्छिन्नोक्तप्रतियोगिता निष्ठनिरूपकानुपयोगितावच्छेदकावच्छिन्नत्वाभावो लक्षणे निविष्ट इति भावः । न चोपमाप्रतीपस
२
·