Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji
View full book text
________________
काव्यमाला |
क्यस्योक्तत्वेन चन्द्रनिष्ठोपमेयतानिरूपितसादृश्यप्रतियोगिताया मुखनिष्ठोपमेयतानिरूपितसादृश्यप्रतियोगिता रूपतया चन्द्रनिष्ठोपमेयतानिरूपितसादृश्यप्रतियोगितायामप्युपमेयतावच्छेदकावच्छिन्नत्वाभावसत्त्वादतिव्याप्तेर्दुर्वारत्वात् । अन्यथोपमांशेऽपि लक्षणगमनासंभवाच्च । न च तत्र चन्द्रनिष्ठोपमेयतानिरूपिता मुखनिष्ठोपमेयतानिरूपिता च सादृश्यप्रतियोगिता भिन्नेति वाच्यम्, प्रतियोगितावच्छेदकभेदादेव प्रतियोगिताभेदात् । भूतलनिष्ठात्यन्तान्योन्याभावनिरूपिताया घटनिष्ठप्रतियोगिताया भेदाभावात् । नन्वेवं चन्द्रवृत्तिसादृश्यप्रतियोगितायामुपमेयतावच्छेदकावच्छिन्नत्वाभावो नास्तीत्य संभव एवेति चेत्, मैवम् । तदुपमावाचकपदान्वयिचन्द्रपदवोध्याया एव प्रतियोगिताया विवक्षितत्वात् । उक्तस्थले त्वेवंविवक्षायामप्यनासंभवावकाश इति ध्येयम् । प्रतियोगितावच्छेदकेति । धर्मसंबन्धो भयपरम् । समवायेन घटपटाद्यभावस्य संयोगसमवायाभ्यां घटाभावस्य च प्रतियोगिताया भेदात् । न तु स्वनिरूपकाश्रयभेदेनापि तद्भेद इत्याह- भूतलेति । तदादीत्यर्थः । भूतलपतादिनिष्ठो यो घटात्यन्ताभावस्तादृशश्च यो घटान्योन्याभावः तत्प्रतियोगितयोः स्वनिरूपकाश्रयभूतल पर्वतादिभेदेन भेदाभावात् । संयोगेन घटत्वावच्छिन्नाभावीयप्रतियोगितायास्तादात्म्येन घटत्वावच्छिन्नभेदीय प्रतियोगितायाश्चाभावाधिकरणभेदेऽपि भेदाभावादिति यावत् । अत्यन्तान्योन्याभावीयघटत्वाद्यवच्छिन्नप्रतियोगितयोस्तु संयोगादितादात्म्यरूपावच्छेदकसंबन्धभेदाद्भेदः । भेदीयप्रतियोगितायाः संबन्धानवच्छिन्नत्वपक्षे तदवच्छिन्नत्वानवच्छिन्नत्वाभ्यामेवेत्यन्यदेतत् । प्रकृते च सादृश्यस्य पदार्थान्तरत्वे प्रतियोगितायाः संबन्धावच्छिन्नत्वमेव नास्ति । तद्भिन्नत्वे सतीत्यादिरूपत्वेऽपि तादात्म्यावच्छिन्नत्वनवच्छिन्नत्वमेव वा । सर्वथापि अवच्छेदकसंबन्धभेदाभावाच्चन्द्रत्वरूपावच्छेदकधर्मैक्याच्च न सादृश्याश्रयभेदाद्भेदः संभवतीति समुदायार्थः । नन्वेवमिति । 'चन्द्र इव चन्द्रः' इत्यत्रो - पमेयतावच्छेदकीभूतचन्द्रत्वावच्छिन्नत्वात् 'चन्द्र इव मुखम्' इत्यत्रापि प्रतियोगितायास्तदभावो न स्याद्वाक्यभेदेन प्रतियोगिताभेदाभावादित्यर्थः । तदुपमेति । तदिति पदविशेषणम् । तथा च इवादिपदं तत्तव्यक्तित्वेन धृत्वा यत्पदोपस्थाप्यं सादृश्यं यत्प्रतियोगित्वेन गृह्यमाणं सद्यत्र विशेषणीभवति तद्वृत्तिधर्मोऽत्र उपमेयतावच्छेदकपदेन विवक्षित इति नासंभव इत्यर्थः । उक्तस्थले त्विति । तदयं पूर्वपक्षस्य फलितार्थः — उक्तस्थलें - ऽशतः क्लृप्तालंकारद्वयाभ्युपगमो न युक्तः, उपमेयोपमाया अप्युपमाप्रतीपाभ्यां गतार्थता - पत्तेः । नाप्यत्रांशत उपमा संभवति, उक्तरीत्यानन्वयांशेऽतिव्याप्तेः । इवपदस्यैक्यादावृत्तौ च मानाभावात्तेनैवेव पदेनोपस्थाप्यं चन्द्रप्रतियोगिकत्वेन गृह्यमाणं चन्द्रे मुखे च विशेषणम् । एवं च चन्द्रनिष्ठायां प्रतियोगितायां मुखत्वावच्छिन्नत्वाभावमादाय लक्षण

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 436