Book Title: Alankar Kaustubh
Author(s): Visheshwar Pt, Shivdutt Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 14
________________ काव्यमाला। न्वयः स्फुट एव । अनन्वयेऽतिव्याप्तिवारणाय-उपमेयतावच्छेदकावच्छिन्नत्वाभाव उक्तः । तत्र तूपमेयतावच्छेदकचन्द्रत्वावच्छिन्नत्वसत्त्वानातिव्याप्तिः । व्यतिरेकेऽतिव्याप्तिवारणाय—स्वाश्रयेत्यादि । उभयत्र स्वपदं प्रतियोगितापरम् । तत्र तूपमेयापेक्षयोपमानेऽपकर्षवर्णननियमात्प्रतियोगिताश्रय उपमानम् । तन्मात्रवृत्तिः प्रतियोगितानवच्छेदकश्च धर्मोऽपकर्षप्रयोजकः, तत्सामानाधिकरण्यमेव सादृश्यप्रतियोगिता. यामिति न व्यभिचारः ॥ न चैवमप्यनुपात्तापकर्षहेतुधर्मकव्यतिरेके व्य. भिचारः, अलंकारसाक्षाद्विभाजकोपाध्यवच्छेदेन तथात्वस्य विवक्षितत्वात् । उक्तधर्मश्च तद्वाक्योपस्थाप्यो ग्राह्यः, अन्यथासंभवापत्तेः । 'चन्द्र इव मुखम्' इत्यत्रापि चन्द्रमात्रवृत्तिचन्द्रत्वसामानाधिकरण्यं सादृश्यप्रतियोगितायामस्तीत्यसंभववारणाय—स्वानवच्छेदकेति । चन्द्रत्वस्य तु सादृश्यप्रतियोगितावच्छेदकत्वमस्त्येवेति न दोषः । तत्रैव तादृशप्रतियोगितानवच्छेदकालादकत्वादिधर्मसामानाधिकरण्यं प्रतियोगितायामस्त्येवेत्यसंभवतादवस्थ्यमेवेत्यत उक्तम्-स्वाश्रयमात्रवृत्तीति । तत्रापि मात्रपदानुपा स्फुट इति । तत्र चन्द्रत्वस्य सादृश्यप्रतियोगितावच्छेदकतया चन्द्रवृत्तिसादृश्यप्रतियोगितायामुपमेयतावच्छेदकमुखत्वावच्छिन्नत्वाभावस्योक्तप्रतियोगिताश्रयीभूतचन्द्रमात्रत्तिप्रतियोगितानवच्छेदकधर्मसामानाधिकरण्याभावस्य च सत्त्वादित्यर्थः । ननु स्वाश्रयमात्रेत्यादिविवक्षायामसंभवापत्तिः, चन्द्रमात्रवृत्तिः प्रतियोगितानवच्छेदकश्च धर्मस्तन्मात्रवृत्तिभेदव्यक्त्यादिः, तत्सामानाधिकरण्यस्य प्रतियोगितायां सत्त्वादित्यत आहउक्तधर्मश्चेति । तद्वाक्येति । उपमाश्रयत्वाभिमतवाक्यार्थबोधविषयीभूतेत्यर्थः । तथा च तादृशभेदादेश्चन्द्रमात्रवृत्तित्वेऽपि 'चन्द्र इव मुखम्' इत्येतद्वाक्यबोध्यत्वाभावान दोष इत्यर्थः । नन्वेवमपि 'चन्द्र इव मुखम्' इत्यत्र चन्द्रमात्रवृत्तिः प्रतियोगितानवच्छेदकस्तद्वाक्योपस्थाप्यश्च धर्मोऽप्रसिद्ध एव, मुखत्वसादृश्ययोश्चन्द्रेतरवृत्तित्वात्, चन्द्रत्वस्य सादृश्यप्रतियोगितावच्छेदकत्वात्, अन्यस्य च तद्वाक्यानुपस्थाप्यत्वात् । मैवम् । प्रतियोगितारूपस्यैव तादृशधर्मस्य सुलभत्वात् । न च तस्यां तत्सामानाधि. करण्यस्यैव सत्त्वादसंभव एवेति वाच्यम्, भेदगर्भसामानाधिकरण्यस्य तत्राप्यभावोपपत्तेः । चन्द्रत्वावच्छिन्नप्रतियोगितायाश्चन्द्रेतरावृत्तित्वस्यापि सत्त्वात् । व्यधिकरणधर्मावच्छि. नाभावानभ्युपगमात् । अभ्युपगमे वा तस्य संयोगाद्यवच्छिन्नतया सादृश्यप्रतियोगिताया अतथाले न तद्भिन्नत्वात् स्वपदेन सादृश्यनिरूपितप्रतियोगिताया एव धारणात् । न

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 436