Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 6
________________ ShriMahavir JanArchanaKendra Achh agan Gyaan प्रस्तावना. अजितसेनशीलवती चरितम् । ॥२॥ दैवादान्यजनेन तेन स पुनर्जीयेत मन्त्री कचिद्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमामोति न ॥ ४॥ रत्नान्यायसुतैर्वितीर्य वणिजा देशान्तरादीयुषां, पश्चात्तापवशेन तानि पुनरादातुं कृतोपक्रमैः । लभ्यन्ते निखिलानि दुर्घटमिदं दैवाद् घटेतत्वचिद्, भ्रष्टो मर्त्यभवात्तथाप्यसुकवी भूयस्तमानोति न ॥५॥ स्वप्नेकार्पटिकेन रात्रिविगमे श्रीमूलदेवेन च, प्रेक्ष्येन्दु सकलं कुनिर्णयवशादल्पं फलं प्राप्य च ।। स्वप्नस्तेन पुनः स तत्रशयिते नालोक्यते कुत्रचिद्, भ्रष्टो मर्त्य भवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥ ६ ॥ राधाया वदनादधः क्रमवशाच्चक्राणि चत्वार्यपि, भ्राम्यन्तीह विपर्ययेण तदधो धन्वी स्थितोऽवाङ्मुखः । तस्या वामकनीनिकामिषुमुखेनैवाशु विध्यत्यहो, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥ ७ ॥ दृष्ट्वा कोऽपि हि कच्छपो हुदमुखे शेवालबन्धच्युते, पूर्णेन्दु मुदितः कुटम्बमिह तं द्रष्टुं समानीतवान् । शेवाले मिलिते कदापि स पुनश्चन्द्रं समालोकते, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥ ८॥ शम्या पूर्वपयोनिधौ निपतिता भ्रष्टं युगं पश्चिमा,-म्भोधौ दुर्धरवीचिभिश्च सुचिरात्संयोजितं तद्वयम् । सा शम्या प्रविशेद्युगस्य विवरे तस्य स्वयं कापि चेद्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥९॥ चूर्णीकृत्य पराक्रमान मणिमयं स्तम्भं सुरः क्रीडया, मेरौ सन्नलिका समीरवशतः क्षिप्त्वा रजो दिक्षु चेत् । स्तम्भं तैः परमाणुभिः सुमिलितैः कुर्यात्स चेत्पूर्ववत्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥१०॥ " पुण्यैरवाप्यते लक्ष्मीः, पुण्येनैव महोन्नतिः । पुण्येन मानवो देहो-दुर्लभः स्वर्गिणामहो ? ॥ ११॥" For Private And Personlige Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 244