Book Title: Ajitsen Shilwati Charitram Author(s): Ajitsagarsuri Publisher: Ajitsagarsuri Shastra Sangraha View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra 838400-600-* www.khatirth.org प्रस्तावना. धर्मशास्त्रविनोदेन, कालो गच्छति धीमताम् । व्यसनेन च मूर्खाणां, निद्रया कलहेन च ॥ १ ॥ सुविदितमेतत्खलु सर्वेषां विदुषां श्रीमदईतां मुखकमलेभ्यो विनिर्गतानि श्रीमद्भिश्च गणधरवरै रचितानि द्वादशाङ्गत्यादिधर्मशास्त्राणि जगज्जनपावकानि सुप्रसिद्धानीति, तानि वेदितुं शिक्षितुं च मानवा एव समर्थाभवन्ति, मानवत्वं च दशदृष्टान्तैरतीव दुर्लभं निगद्यते । तद्यथा विप्राशनं पाशकममराशिं द्यूतं मणि स्वप्नशशांकपानम् । चक्रं च कूर्म च युगं पराणुं, दृष्टान्तमाहुर्मनुजत्वलामे ॥ १ ॥ “ विप्रः प्रार्थितवान् प्रसन्नमनसः श्रीब्रह्मदत्तात्पुरा, क्षेत्रेऽस्मिन् भरतेऽखिले प्रतिगृहं मे भोजनं दापय । इत्थं लब्धवरोऽथ तेष्वपि कदाप्य आत्यहो द्विः स चेद्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥ १ ॥ स्तम्भानां हि सहस्रमष्टसहितं प्रत्येकमष्टोत्तरं, कोणानां शतमेषु तानपि जयन् द्यूतेऽथ शतसंख्यया । साम्राज्यं जनकात्सुतः स लभते स्यादिदं दुर्घटं भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥ २ ॥ वृद्धा काऽपि पुरा समस्त भरतक्षेत्रस्यधान्यावलि, पिण्डीकृत्य च तत्र सर्षपकरणान् क्षिप्त्वाढकेनोन्मितान् । प्रत्येकं हि पृथक्करोति किल सा सर्वाणि चान्नानि चेद्, भ्रष्टो मर्त्यभवात्तथाप्यसुकृती भूयस्तमाप्नोति न ॥ ३ ॥ सिद्धद्यूतकलाबलाद्धनिजनं जित्वाथनां भरै - श्वाणक्येन नृपस्य कोशनिवद्दः पूर्णीकृतो हेलया । For Private And Personal Use Only *+++++++******++*** Acharya Shri Kassagarsun GyanmandirPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 244