Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra -1034033**** +CCK KR www.kobatirth.org लभन्ते, योगिनो योगमार्गेण विहितचित्तनिरोधा निर्वाणपदं भजन्ते, ब्रह्मज्ञा ब्रह्मोपासनया निरामयस्थानवर्त्तिनो भवन्ति, तत्स्वरूपं सरंहस्यं मुख्यतोऽत्र विशदीकृतं विद्यते, यतः “ सम्यगृहानक्रियाभ्यां मोक्षः ? ” अध्यात्मतत्त्ववेदिभिः पूर्वाऽऽचार्यैः प्रथितास्तत्तद्न्या निश्चयजुषां पोषका बहवः प्रतीयन्ते तथैव क्रियार्थप्रतिपादका अपि प्रबन्धाः क्रियाप्रधानानामतीवोपयोगिनो विलसन्ति, यथा" विना ज्ञानप्रकाशेन, हस्तिस्नानमिव क्रिया । क्रियाकर्मविहीनं च निष्फलं ज्ञानमुच्यते ।। १ ।। 19 अतोऽस्मिन् ग्रन्थे ज्ञानक्रियोभयप्रतिपादकानि कथानकानि सूरिवरेण प्रदर्शितानि स्त्रीपुरुषाणां लक्षणभेदतञ्चातुर्विध्यं गुणप्रकृत्यनुसारेण व्याख्यातमस्मिन् चरित्रग्रन्थे यथा " अनुकूलोऽथ दचथ, शठो घृष्टस्तथैव च । चतुर्षा पुरुषो ज्ञेयः, कार्याकार्यविचक्षणः ॥ १ ॥ तथैव - स्त्रीभेदा:-- “ पद्मिनी चित्रिणी चैव, हस्तिनी शंखिनी तथा । नारी चतुर्विधा ज्ञेया, कार्याकार्यविचचणा ॥ २ ॥ " केचन षड्विधं मानवत्वं प्रतिपादयन्ति तद्यथा - श्रधमाऽधमः, अधमः, विमध्यमः, मध्यमः, उत्तमः, उत्तमोत्तमश्चेति, " अविज्ञातधर्मकर्मा, परलोकविमूढात्मा, वने वसन् क्रूरकर्मा, वल्कलवसनः, गिरिकन्दराः सेवमानः पशुप्रायो यो भवति स नरोऽधमाऽधमः प्रोच्यते " ॥ " यः परलोकं न मनुते मद्यमांसभक्षणेऽतिलोलुपः, धर्मकर्मोपहसन् तदाराधकानवमन्यते, परदुःखमविलोकमानो निजसुखसाधने सततं यतते, नटविटवेश्याद्यूतकारमायावितस्करादिषु समासक्तः श्रेष्ठकूलजातोऽपि नास्तिकसंगतः पूण्यपापलोकान्तरमपह्नुते सोऽधमः, " “ यो मोक्षसुखमनीहमानः केवलं सांसारिक सुखाऽभिलाषी, अर्थकामाभ्यां सह धर्म समाराधयति स विमध्यमः स च मोक्षं For Private And Personal Use Only ******************←+£6*•*3 Acharya Shri Kassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 244