Book Title: Agnatkartuk Arhatpravachan Sutra Savivaran Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 3
________________ (१०) अज्ञातकर्तृकं श्री अर्हत्प्रवचनसूत्रम् ॥ अथातो अर्हत्प्रवचनं व्याख्यास्यामः । तद् यथा ॥ तत्रेमे षड् जीवनिकायाः । पञ्च महाव्रतानि । पञ्चाणुव्रतानि । त्रीणि गुणव्रतानि । चत्वारि शिक्षाव्रतानि । तिश्री गुप्तयः पञ्च समितयः । दश धर्मानुभावनाः । द्वादशानुप्रेक्षाः । द्वाविंशति परीषहाः ॥ इत्यर्हत्प्रवचने प्रथमोऽध्यायः समाप्तः ॥ अथातोऽर्हत्प्रवचनसङ्ग्रहं व्याख्यास्यामः । तद्यथा - अथेत्ययं निपात: पूर्व्वप्रकृत्यपेक्ष: । अथ (त) इति पञ्चमीनिर्देश: 1 अर्हन्तो नाम भगवन्तो लोकोत्तमाः सर्व्वज्ञाः सर्व्वलोकदर्शिनः । तैरुपदिष्टं प्रवचनं गणधरदेवै रचितम् । तद् व्याख्यास्यामः कथयिष्यामः प्रकाशयिष्यामः इत्यर्थः (१) तथैव षट् (ड्) जीवनिकायाः । कतमाः ? | पृथ्वीकायिकाः । आपः कायिकाः । तेज:कायिकाः । वायुकायिकाः । वनस्पतिकायिकाः । त्रसायिकाश्चेति । एते षट् (ड्) - जीवनिकाया न हिंस (सि) तव्या व्रतपरिरक्षणार्थम् । (२) पञ्च महाव्रतानि । कतमानि ? । यावज्जीवं प्राणातिपाताद्विरतिः । यावज्जीवं मृषावादाद्विरति । यावज्जीवं अदत्तादानाद्विरति । यावज्जीवं मैथुनाद्विरतिः । यावज्जीवं परिग्रहाद्विरतिः । इत्येतानि रात्रि भोजनाद्विरति: षष्ठानि भवन्ति । (३) पञ्चाऽणुव्रतानि । कतमानि ?। यावज्जीवं स्थूलकृतप्राणातिपाताद्विरतिः । यावज्जीवं स्थूलकृतमृषावादाद्विरतिः । यावज्जीवं स्थूलकृत अदत्तादानाद्विरति: । यावज्जीवं स्वदारसन्तोषः परदाराद्विरतिः । यावज्जीवं इच्छाकृतपरिग्रहपरिमाण (णं) । षष्ठं अणुव्रतं रात्रिभोजनं (न) वर्ज्जनिमिति । एतानि पञ्चाणुव्रतानि । (४) तत्र त्रीणि गुणव्रतानि । [क्तमानि ?] । दिसि (शा) विदिसि (शा) - प्रत्याख्यानं द्विविधम (न) र्थदण्डाद्विरति : । क्तमा: (मा: ) ? | दण्ड- पास (श) विरालश्च विष - स (श) खाग्नि-रज्जव: । परेभ्यो नैव देयास्ते स्वपरघातहेतवः ॥ छेदं भेदं वध ( धं) बन्धं गुरुभारातिरोपणम् ॥ न कायन्ति स्वयमन्येषु (मन्यैः) । तृतीयं गुणव्रतं भोगोपभोगकृतपरिमाणं चेति । एतानि त्रीणि गुणव्रतानि ॥ (५) चत्वारि शिक्षाव्रतानि । कतमानि ? । सामायिकम् । दिवसावशेषिकम् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15