Book Title: Agnatkartuk Arhatpravachan Sutra Savivaran Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 7
________________ ९४ (१६) चतुर्विधो विनयः । कतमः ? | दर्शनविनयः । ज्ञानविनयः । चारित्रविनयः । औपचारिकविनयश्चेति चतुर्विधो विनयः ॥ (१७) दश वैयावृत्ता(स्था ) नि । कतमानि ? । आचार्यवैयावृत्त्यम् । उपाध्यायवैयावृत्त्यम् । तपस्विवैयावृत्त्यम् । सिष्य (शैक्ष) वैयावृत्त्यम् । गणवैयावृत्त्यम् । कुलवैयावृत्त्यम्।[ सङ्घवैयावृत्त्यम् । ] सा (शा) स्त्र (साधु ? ) वैयावृत्त्यम् । ग्लानवैयावृत्त्यम् । मनोज्ञवैयावृत्त्यम् । एतानि दस (श) वैयावृत्ता (त्या) नि ॥ (१८) पञ्चविधः स्वाध्यायः । कतमानि ( कतमः) ? | वाचन (ना) । प्रच्छन (ना) । अनुप्रेक्षा । आम्नायः । धर्मोपदेशश्चेति । एषः (ष) पञ्चविधः स्वाध्यायः ।। (१९) चत्वारि ध्यानानि । कतमानि ? । आर्त्तरौद्र ध्यान (धर्म्म) शुक्लानि । आत (र्त्तं) नाम राज्योपभोगसं (?) शयनवाहन वस्त्राभरणेषुइच्छा भिलाषमतिपूर्व्वकम्। तदार्त्तं नाम । रौद्रं नाम छेदनदहनताडनबन्धनमरणानुकम्पारहितरागकरणं तत् रौद्रं ध्यानं नाम | सूत्रार्थमार्गणमहाव्रत भावनाप श्चेन्द्रियोपशमनबन्धमोक्षगमनहेतुचिन्तापूर्वकं धर्म्मध्यानं नाम । शुक्लध्यानं नाम इन्द्रियविषयप्रवृत्तमनोवाका (क्का) य सङ्कल्पनिकृ(वृ) ता (त्या) - त्मकं मोक्षकारणं शुक्लध्यानमिति । एतदेवाह - राज्योपभोगशयनासनवाहनेषु स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु । इच्छाभिलाषमतिमात्रमुपैति मोहात् ध्यानं तदार्त्तमिति तत्प्रवदन्ति सन्तः ॥ संछेदनैर्दहनताडनमारणैश्च बन्धप्रहारदर्शनैश्च विकर्तनैश्च । यस्येह रागमुपजा (या) ति न चानुकम्पा ध्यानं [च] रौद्रमिति तत्प्रवदन्ति तज्ज्ञाः ॥ सूत्रार्थमार्गणमहाव्रतभावनानि पञ्चेन्द्रियोपशमनानि दया च भूते । बन्धप्रमोक्षगमना गतिहेतुचिन्ता ध्यानं सुधर्म्ममिति तत्प्रवदन्ति तज्ज्ञा: ॥ यस्येन्द्रियाणि विषयेषु निवर्तितानि सङ्कल्पकल्पमविकल्पविकारदोषैः । योगैस्त्रिभिस्त्वहरहर्निभृतान्तरात्मा Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15