Book Title: Agnatkartuk Arhatpravachan Sutra Savivaran
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 12
________________ रसनेन्द्रियं । स्पर्शनेन्द्रियं चेति । एतानि पञ्चेन्द्रियाणि भवन्ति ।। (१३) घट्लेश्याः । क्तमा:? कृष्णलेश्या ।नीललेश्या । काका) पोतलेश्या। तेज(जो)लेश्या । पद्मलेश्या। शुक्ललेश्या । एते षट् लेश्याः ।। (१४) द्विविधं शीलम् । कतमाः । (मं)? । सामायिकाधिकरणं । केवलज्ञानं चेति ॥ इति अर्हत् प्रवचने चतुर्थोऽध्यायः समाप्त : ।। [पञ्चमोऽध्यायः] विविधो योगः । चत्वारः कषायाः । त्रयो दोषाः । पञ्चाश्रवाः । त्रिविधः संवरः। द्विविधा निर्जरा ।पञ्च लब्धयः । चतुर्विधो बन्धः। पञ्च बन्धहेतवः । अष्टौ कर्माणि । द्विविधो मोक्षः । चत्वारो मोक्षहेतवः । त्रिविधो मोक्षमार्गः।। पंच] विधा निर्गन्थाः । त्रिविधा(:) सिद्धा( :) | दादश सिद्धस्यात्(नु)योगद्वाराणि । अष्टौ सिद्धगुणाः । द्विविधा(:) सिद्धाः। वैराग्यं च ॥ इति अर्हत्प्रवचने पञ्चमसूत्रम् ॥ (१) त्रिविधो योगः । कतम: ? मनोयोगः । वाग्योगः । काययोगश्चेति । इत्येष त्रिविधो योगः ॥ (२) चत्वारः कषायाः। तमाः? क्रोधकषायः। मानकषायः । मायाकषायः। लोभकषायश्चेति । एते चत्वारः कषायाः ॥ (३) त्रयो दोषाः । कतमाः? । रागद्वेषमोहाश्चेति । एते त्रयो दोषा : ॥ (४) पञ्चाश्रवाः । कतमाः ? हिंसाश्रवः । अनृताश्रवः । स्तैन्याश्रवः । । अब्रह्मचर्याश्रवः। परिग्रहाश्रवेत्येते पञ्चाश्रवाः ।। (५) त्रिविधः संवरः । कतमः ? । कायसंवरः । वाक् संवरः । मन:संवरश्चेति । एष त्रिविधः संवर : 1 (६) द्विविधा निर्जरा । कतमा ? । ज्ञाननिर्जरा । तपोनिज्जराश्चे(चे)र ति ॥ (७) पञ्च लब्धयः । कतमा:? । दानलब्धिः । लाभलब्धिः । भोगलब्धिः। उपभोगलब्धिः । वीर्यलब्धिः । एताः पञ्च लब्धयः॥ (८) चतुर्विधो बन्धः । कतमः? । प्रकृतिबन्धः । स्थितिबन्धः । अनुभागबन्धः। प्रदेशबन्धः । एष श्च(च)तुर्विधो बन्धः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15