Book Title: Agnatkartuk Arhatpravachan Sutra Savivaran
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
१०१
सु (शु) भानां कर्मणां हेतुः सु (शु) भ एव स्मृतो बुधैः । अशुभानां चाशुभ: प्रोक्त(तो) जिनेन्द्रैस्तत्त्वदर्शिभिः ॥
(११) द्विविधो मोक्षः । कतमः ? । देशमोक्षः । सर्व्वमोक्षश्चेति ।
देशमोक्षोनाम सासन (सास्वादन ?) सम्यग्दृष्टयादिसयोगकेवलिपर्यन्तः । सर्व्वमोक्षो नाम अजो (यो) गकेवली सिद्धश्चेति ॥
(१२) चत्वारो मोक्षहेतवः । कतमा: ? । सम्यग्दर्शनं । सम्यक्( ग्) ज्ञानं । सम्यक्चारित्रं । सम्यक् तपश्चेति ॥
(१३) त्रिविधो मोक्षमार्गः । कतम : ? । सम्यग्दर्शनं । सम्यग्ज्ञानं । सम्यक् चारित्रमिति ॥
(१४) पञ्चविधा निर्ग्रन्थाः । कतमाः ? । पुलाकः । बकुस (श) : । कुसी (शी) ल: । निर्ग्रन्थः । स्नातकचेति ॥ यः स्थित्यादिकरणकारणोद्युक्तः मार्गप्रभावकः सप्रतिकारी प्रशस्तवचन: कुशलः सर्व्वज्ञप्रतिष्ठापनः पूजादीनां कर्ता कारयिता च स पुलाको नाम । यो मतिश्रुतप्रतिपादनमार्गप्रभावना (नो) द्युक्तः अर्हन्सु (त् शु) द्धसील: (शील) कथाभिलो(ल) कपरिपाटी प्रथमानुयोग वाचकः यथाशक्ति तपस्त्यागकर्ता विनयशीलो अन्य (न्यं) समुपदिश्य प्रवर्तकः अर्हदाचार्यबहुश्रुत प्रवचनं (न) भक्ति स्तुतिवन्दनालोचनप्रतिक्रमणकायोत्सर्गाणां कारकः सुप्रसन्न ( : ) परिहारसंज (य) मधरः स एष बपु (कु) शो नाम । ईषत्पण्डितशीलः कुशीलः दयापरः परमकारुणिकः सर्व्वभूतमैत्री परायणः अत्यन्तसूक्ष्म सा(स) म्परायसंज (य) मधर: द्वादशाङ्ग चतुर्द्दशपूर्व्वपारगः घोर वीरतपश्च[र]णोद्युक्तः स एष कुशीलो नाम । बाह्याभ्यन्तर ग्रन्थार्थपरित्यागी । बाह्यपरिग्रहः क्षेत्रव (वा) स्तुहिरण्यधनधान्यकुप्यपसु (शु) पाल्यपुत्रदाराभिः । अभ्यन्तरप (रि) ग्रहः क्रोधमानमायालोभमात्सर्यक्रीड (डा) - रतिशोकभयजुगुप्साहास्यप्रमत्तयोगप्रत्याख्यानहिंसानृतस्तेयमैथुनपरिग्रहादिग्रन्थपरित्यागशीलः । चतुर्ज्ञानसम्पन्नो लब्धिप्राप्तः शुक्लध्यानपरः निर्ममो निरहङ्कारः उत्तमसंज (य) मधरः विशुद्धलेश्यः स एष निर्गन्थो नाम । परमेश्वरः सर्व्वज्ञो लोकालोकविचारकः चतुस्त्रिंशदतिशयलब्धिप्राप्तः अष्टमहाप्रातिहार्यसमन्वितः स एष स्नातको नाम । एते पञ्चविधा निर्ग्रन्थाः ॥
(१५) त्रिविधाः सिद्धाः । कतमा: ? । क्षेत्रसिद्धाः । कालसिद्धाः । भावसिद्धाश्चेति । तत्र ये पञ्चदशकर्मभूषिषु जाता ऊर्ध्वाधस्तिर्यग्लोकेषु सिध्यन्ति ते क्षेत्रसिद्धाः । ये उत्सर्पिण्यो (ण्यां ?) जाता: तीर्थेषु एकसमयसिद्धा द्विसमयसिद्धा (:) तृ (त्रि) चतुरसंख्येय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15