Book Title: Agnatkartuk Arhatpravachan Sutra Savivaran
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________ 102 समयसिद्धाः ते कालसिद्धा नाम। ये अष्टविधकर्मविनिर्मुक्ता(:) सिद्धि प्राप्ताः ते भावसिद्धा नाम / एते त्रिविधा(:) सिद्धाः // ___ (16) द्वादश सिद्धस्थानुयोगद्वाराणि / कतमानि ? / कालो(लः) / गतिः / लिङ्गः(ङ्गम्) तीर्थ(म्) / चारित्र:(बं) / प्रत्येकबुद्धः।बोधितबुद्धः / ज्ञानावगाहनं (ज्ञानम्। अवगाहना / ) अनांतरं (अन्तरं) / संख्याअल्पबहुत्वतश्चेति(त्वं चेति) / एतानि द्वादश सिद्धस्यानुयोगद्वाराणि।। (17) अष्टौ सिद्धगुणाः / कतमाः? / अनन्तदर्शनं / अनन्तज्ञानं / अनन्तवीर्य। अनन्तसुखं / सूक्ष्मत्वं / अनन्तावगाहः / अग(गु)स्लहु(घु)त्वं / अव्याबाधश्चेति / एते अष्टगुणाः // (18) द्विविधा(:)सिद्धाः।कतमाः?। मोहान्तराय [ज्ञान] दर्शनावरणीयक्षयात् कैवल्यप्राप्तिसिद्धाः / आयुर्नामगोत्रवेदनीयक्षयात् स्नातकसिद्धाश्चेति // तत्र मोहो नाम द्विविधः / चारित्रमाह(हो)दर्शनमोहश्चेति / परित्रमोहक्षयात्(द्) वीतरागो भवति / दर्शनमोहक्षयात् सम्यग्दृष्टिर्भवति / अन्तरायक्षया(द्)दिव्यानि दानलाभभोगोपभोगवीयांण्युत्पद्यन्ते / ज्ञानावरणीयक्षयात् सर्वज्ञो भवति / दर्शनावरणीयक्षयात् सर्वदर्शी भवति / आयुष्यकर्मक्षयात्(द्) जन्ममरणव्याधिविनिर्मुक्तो भवति / नामकर्मक्षयात्(द्) औदारिकवैक्रियाहारकतैजसककार्मणशरीरं(र) तत्त्वविनिर्मुक्तो भवति / आकास(श)वदमूर्तश्चक्षुरग्राही ज्योजावघ(?) रूपो भवति / गोत्रकर्मक्षयात् सदेवासुरमनुष्यलोकस्योत्तमस्थानं प्राप्नोति / वेदनीयकर्मक्षयात् सुखदु:खाभ्यां विनिर्मुक्तो भवति / केवलमव्याबाधं सम्प्राप्तो भवति / लोकाग्रे प्रतिष्ठितो अदेही शाश्वतो वक्तो( मुक्तो) अमरो अजरो निरंजनो भवति / एते षट् (? द्वि)विधाः सिद्धा भवन्ति / / इत्यहत्प्रवचने पञ्चमोऽध्याय समाप्तः / / मङ्गलं महाश्रीः॥॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Page Navigation
1 ... 13 14 15