Book Title: Agnatkartuk Arhatpravachan Sutra Savivaran
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 13
________________ . १०० (९) पञ्चबन्धहेतवः । कतमाः ? । मिथ्यादर्शनं । अविरतिः । प्रमादः । कषाय(:)। योगश्चेति पञ्च बन्धहेतवः ।। (१०) अष्टौ कर्माणि । कतमानि ? 1 ज्ञानावरणीयं । दर्शनावरणीय। वेदनीयं । मोहनीयं । आयु(:)। नाम । गोत्रं । अन्तरायश्चेति ॥ यस्योदयात् ज्ञेयं वस्तु न जानाति तत्(द) ज्ञानावरणीय(य)नामकर्म ।जे(ये)नजीवा(:) पुण्यपापाश्रवबन्धनिर्जरामोक्षादिलक्षणान् सर्वभाव(वान्) न पश्यति(न्ति) तदर्शनावरणीयं नाम कर्म । यस्योदयातु(त्) स(शा)रीरं मानु(न)संदुःखं उदीर्यते तत्(द्) वेदनीयं नाम कर्म । येन क्रोधलोभमानमायारतिऽरति(रत्यरति)शोकभयजुगुप्सादीनि उदीर्यते(न्ते) तत्(द्) मोहनीयं नाम कर्म । येन नरकतिर्यग्मनुष्यामरेषु दीर्घ हुस्वं वा कालं तिष्ठति तदायुर्नाम कर्म । येनाङ्गप्रत्यङ्ग स(श)रीरं संस्थानं विरूपं स्वरूपं वा निवर्तयति तनाम कर्म । येन तिर्यग्मनुष्यामरेषु उच्चं नीचं वा स्थानं निवर्त्तयति तदाऽन्तराय (तद् गोत्रं) नाम कर्म। येन दानलााभभोगोपभोगवीर्यानि(णि) नोत्पद्यन्ते तदन्तरायं नाम कर्म । अत्र श्लोकाः - यस्योदयेन जीवो जीवा विज्ञेय कर्म शुभाशुभम् । (?) ज्ञानावरणमाख्यातं सर्वजैस्तत्त्वदर्शिभिः ।। यस्योदयात् सा(दयवशा)ज्जीवो भावाभावं न पश्यति । दर्शनावरणं प्राहुः सर्वज्ञा मुनिसत्तमाः ।। सुखं वा यदि वा दुःखं वेदयन्ति हि येन ता(ते) वेदनीयं तदित्याहुः सर्वज्ञास्तत्त्वदर्शिनः ।। कषाया नोकषायाश्च मिध्यादर्शनमेव च । मोहनीयं तदित्याहुः सर्च(ज्ञा)स्तत्त्वदर्शिनः ।। जायते मृ(म्रि)यते चैव जीवा [य]स्योदयेन त्(तत्) । आयुष्यं नाम तत् कर्म प्राहुरेव मनीषिणः ।। स्वरूपो[वा] विरूपो वा सुभगो दुर्भगोऽपि वा । कर्मणा जायते येन नामकर्म(म) तदुच्यते ॥ जघन्यमथवा श्रेष्ठं येन गोत्रमवाप्यते । ऐश्वर्यं प्रेष्यभावश्च गोत्रकर्म तदुच्यते ।। येन लाभो न[ल] भ्येत कर्मकर्मार्थसंचित : (?) न चोपभु( )क्ते संप्राप्त: अन्तरायः स उच्यते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15