________________
(१०)
अज्ञातकर्तृकं श्री अर्हत्प्रवचनसूत्रम् ॥
अथातो अर्हत्प्रवचनं व्याख्यास्यामः । तद् यथा ॥ तत्रेमे षड् जीवनिकायाः । पञ्च महाव्रतानि । पञ्चाणुव्रतानि । त्रीणि गुणव्रतानि । चत्वारि शिक्षाव्रतानि । तिश्री गुप्तयः पञ्च समितयः । दश धर्मानुभावनाः । द्वादशानुप्रेक्षाः । द्वाविंशति परीषहाः ॥ इत्यर्हत्प्रवचने प्रथमोऽध्यायः समाप्तः ॥
अथातोऽर्हत्प्रवचनसङ्ग्रहं व्याख्यास्यामः । तद्यथा - अथेत्ययं निपात: पूर्व्वप्रकृत्यपेक्ष: । अथ (त) इति पञ्चमीनिर्देश: 1
अर्हन्तो नाम भगवन्तो लोकोत्तमाः सर्व्वज्ञाः सर्व्वलोकदर्शिनः । तैरुपदिष्टं प्रवचनं गणधरदेवै रचितम् । तद् व्याख्यास्यामः कथयिष्यामः प्रकाशयिष्यामः इत्यर्थः (१) तथैव षट् (ड्) जीवनिकायाः । कतमाः ? | पृथ्वीकायिकाः । आपः कायिकाः । तेज:कायिकाः । वायुकायिकाः । वनस्पतिकायिकाः । त्रसायिकाश्चेति । एते षट् (ड्) - जीवनिकाया न हिंस (सि) तव्या व्रतपरिरक्षणार्थम् ।
(२) पञ्च महाव्रतानि । कतमानि ? । यावज्जीवं प्राणातिपाताद्विरतिः । यावज्जीवं मृषावादाद्विरति । यावज्जीवं अदत्तादानाद्विरति । यावज्जीवं मैथुनाद्विरतिः । यावज्जीवं परिग्रहाद्विरतिः । इत्येतानि रात्रि भोजनाद्विरति: षष्ठानि भवन्ति ।
(३) पञ्चाऽणुव्रतानि । कतमानि ?। यावज्जीवं स्थूलकृतप्राणातिपाताद्विरतिः । यावज्जीवं स्थूलकृतमृषावादाद्विरतिः । यावज्जीवं स्थूलकृत अदत्तादानाद्विरति: । यावज्जीवं स्वदारसन्तोषः परदाराद्विरतिः । यावज्जीवं इच्छाकृतपरिग्रहपरिमाण (णं) । षष्ठं अणुव्रतं रात्रिभोजनं (न) वर्ज्जनिमिति । एतानि पञ्चाणुव्रतानि ।
(४) तत्र त्रीणि गुणव्रतानि । [क्तमानि ?] । दिसि (शा) विदिसि (शा) -
प्रत्याख्यानं द्विविधम (न) र्थदण्डाद्विरति : । क्तमा: (मा: ) ? |
दण्ड- पास (श) विरालश्च विष - स (श) खाग्नि-रज्जव: ।
परेभ्यो नैव देयास्ते स्वपरघातहेतवः ॥
छेदं भेदं वध ( धं) बन्धं गुरुभारातिरोपणम् ॥
न कायन्ति स्वयमन्येषु (मन्यैः) ।
तृतीयं गुणव्रतं भोगोपभोगकृतपरिमाणं चेति । एतानि त्रीणि गुणव्रतानि ॥ (५) चत्वारि शिक्षाव्रतानि । कतमानि ? । सामायिकम् । दिवसावशेषिकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org