Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 9
________________ ६ उत्तराध्ययन- मूलसूत्रम् - २ - १७ / ५४४ दुपादानम्, अत एवासंयतस्तथाऽपि 'संजय मन्त्रमाणे 'त्ति सोपस्कारत्वात्संयतोऽहमिति मन्यमानः, अनेन च संविग्नपाक्षिकत्वमप्यस्य नास्तीत्युक्तं, पापश्रमण इत्युच्यते ॥ संथारं फलगं पीढ़, निसिज्जं पायकंबलं । अप्पमज्जियमारुहई, पावसमणित्ति वुच्चइ ॥ मू. (५४५) वृ. तथा 'संस्तारं ' कम्बल्यादि 'फलकं' चम्पकपट्टादि 'पीठम् ' आसनं 'निषद्यां' स्वध्यायभूम्यादियां यत्र निषद्यते 'पादकम्बलं' पादपुञ्छनम् 'अप्रमृज्य' रजोहरणादिनाऽसंशोध्य उपलक्षणत्वादप्रत्युपेक्ष्य च 'आरोहति' समाक्रामिति यः स पापश्रमण इत्युच्यते ॥ दवदवस्स चरई, पमत्ते अ अभिक्खणं । मू. (५४६ ) उल्लंघणे अ चंडे अ, पावसमणित्ति वुच्चइ ॥ वृ. तथा ' दवदवस्सत्ति द्रुतं द्रुतं तथाविधालम्बनं विनाऽपि त्वरितं २' चरति' गोचरचर्यादिषु परिभ्राम्यति, 'प्रमत्तश्च' प्रमादवशगश्च भवतीति शेषः 'अभीक्ष्णं' वारं वारम् 'उल्लङ्घनश्च' बालादीनामुचितप्रतिपत्त्यकरणतोऽधः कर्त्ता 'चण्डश्च' क्रोधनः, यद्वा 'प्रमतः' अनुपयुक्त ईर्यासमितौ उल्लङ्घनश्च वत्सडिम्भादीनां चण्डश्चारभटवृत्त्याश्रयणतः, शेषं तथैव । पडिलेहेइ पमत्तो, अवउज्झइ पायकंबलं । पडिलेहाअनाउत्ते, पावसमणित्ति वुच्चइ ॥ मू. (५४७) 'वृ. तथा 'प्रतिलेखयति' अनेकार्थत्वात्प्रत्युपेक्षते प्रमतः सन् 'अवउज्झइ 'त्ति 'अपोज्झति' यत्र तत्र निक्षिपति, प्रत्युपेक्षमानो वा अपोज्झति, न प्रत्युपेक्षत इत्यर्थः, किं तत् ? - पाद कम्बलं पात्रकम्बलं वा प्रतीतमेव, समस्तोपध्युपलक्षणं चैतत् स एवं 'प्रतिलेखनाऽनायक्तः ' प्रत्युपेक्षानपयुक्तः, शेषं तथैव ॥ मू. (५४८ ) पडिलेहेइ पमत्ते, से किंचि हु निसामिआ । गुरुं परिभावए निच्चं, पावसमणित्ति वुच्चइ ॥ वृ. तथा प्रतिलेखयति प्रमत्तः सन् 'किंचि हु'त्ति 'हुः' अपिशब्दार्थः, ततः किञ्चिदपि विकथादीति गम्यते, 'निसामिअ'त्ति 'निशम्य' आकर्ण्य तत्राक्षिप्तचित्ततयेति भावः, 'गुरुपरिभासय'त्ति गुरुन् परिभाषते - विवदते गुरुपरिभाषकः, पाठान्तरतो गुरुपरिभावकः, 'नित्यं' सदा, किमुक्तं भवति ? - असम्यक्प्रत्युपेक्षमानोऽन्यद्वा वितथमाचरन्, गुरुभिश्चोदितस्तानेव विवदतेऽभिभवति वाऽसभ्यवचनैः, यथा स्वयमेव प्रत्युपेक्षध्वं युष्माभिरेव वयमित्थं शिक्षितास्ततो युष्माकमेवैष दोष इत्यादि, शेषं तथैव, गुरुपरिभाषिकत्वं प्रमत्तत्वस्य च निशमनहेतुत्वं पूर्वस्माद्विशेष इति न पौनरुक्त्यम् । किञ्च मू. (५४९) बहुमाई पमुहरी, थद्धे लुद्धे अनिग्गहे। - असंविभागी अचियत्ते, पावसमणित्ति वुच्चइ ॥ वृ.' बहुमायी' प्रभूतवञ्चनाप्रयोगवान् प्रकर्षेण मुखरः प्रमुखरः स्तब्धो लुब्ध इति च प्राग्वत्, अविद्यमानो निग्रहः - इन्द्रियमनोइन्द्रियनियन्त्रणात्मकोऽस्येत्यनिग्रहः, संविभजतिगुरुग्लान बालादिभ्य उचितमशनादि यच्छतीत्येवंशीलः संविभागी न तथा य आत्मपोषकत्वेनैव सोऽसंविभागी, 'अचियत्ते 'ति गुर्वादिष्वप्रीतिमान् शेषं पूर्ववत् ॥ अन्यच्च For Private & Personal Use Only Jain Education International www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 316