Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं - १७, [ नि. ३९१ ]
९
'अयंसि 'त्ति अस्मिन् 'लोके' जगति 'विषमिव 'त्ति गर इव 'गर्हितः ' निन्दितो, भ्रष्टप्रतिज्ञो हि प्राकृतजनैरपि निन्द्यते धिगेनमिति, अत एव न स 'इह' इतीह लोके 'नैवे 'ति नापि परत्र लोके, परमार्थतः सन्निति शेषः, यो हि नैहिकंमामुष्विकं वा कञ्चन गुणमुपार्जयति स तद्गुणनायामप्रवेशतस्तत्त्वतोऽविद्यमान एवेति ।
मू. ( ५५९ ) जे वज्ज एए उ सदा उ दोसे, से सुव्वए होइ मुनीन मज्झे । अयंसि लोए अमयं व पूइए, आराहए दुहओ लोगमिणं ॥ त्तिबेमि ॥ वृ. यः ‘वर्जयति' परित्यजति 'एतान्' उक्तरूपान् 'सया उ'त्ति सदैव दोषान् यथासुखविहारादिपापानुष्ठानरूपान् स तथाविधः 'सुव्रतः ' निरतिचारतया प्रशस्यव्रतो भवति मुनीनां मध्ये, किमुक्तं भवति ? - भावमुनित्वेनासौ मुनि मध्ये गण्यते, तया वाऽस्मिन् लोके 'अमृतमिव' सुरभोज्यमिव 'पूजित:' अभ्यर्हित आराधयति 'दुहतो लोगमिणं 'ति इहलोकपरलोकभेदेन द्विविधं लोकम् 'इणं'ति इममनेन चातिप्रतीततया प्रत्यक्षं निर्दिशतीति, इहलोके च सकललोकपूज्यतया परलोके च सुगत्यवाप्तेः, तत: पापवर्जनमेव विधेयमिति भाव इति सूत्रद्वयार्थः ॥ 'इति' परिसमाप्तौ, ब्रवमीति पूर्ववत्, नया अपि तथैव ॥
अध्ययनं - १७ समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे सप्तदशअध्ययनस्य भद्रबाहुस्वामिरचिता निर्युक्ति एवं शान्त्याचार्य विरचिता टीका परिसमाप्ता । अध्ययनं १८ - संयमीय
वृ. उक्तं सप्तदशमध्ययनम् अधुनाऽष्टादशमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने पापवर्जनमुक्तं तच्च संयतस्यैव, सचो भोगद्धित्यागत एवेति स एव संजयोदाहरणत इहोच्यत इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य च चतुरनुयोगद्वारप्ररूपणा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे संजयीयमिति नाम, ततः सञ्जयशब्दनिक्षेपायाह निर्युक्तिकृत्निक्खेवो संजइज्जंमि चउ० ॥
नि. [ ३९२ ]
नि. [ ३९३ ] नि. [ ३९४ ]
2
Jain Education International
सरभवि० ||
10
संजयनामं गोयं वेयंतो भावसंजओ होइ ।
तत्तो समुट्ठियमिणं अज्झयणं संजइज्जति ॥
वृ. गाथात्रयं व्याख्यातप्रायं, नवरं 'निक्खेवो संजइज्जमि'त्ति 'निक्षेप: ' न्यासः सञ्जयीयाध्ययने अर्थात्सञ्जयस्येति गम्यते । तथा च तृतीयगाथायां 'संजयनामं गोयं वेयंतो' इत्युक्तं 'तत' इति सञ्जयादभिधेयभूतात्, 'समुत्थितम्' उत्पन्नम् इदं अध्ययनं सञ्जयीयमिति, तस्माद्धेतोरुच्यत इति गाथायार्थः । इत्युक्तो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिष्पन्नस्यावसरः, स च सूत्रे सति भवत्यतः सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्
मू. (५६० )
कंपिल्ले नयरे राया, उदिन्नबलवाहणे ।
नामेणं संजओ नाम, मिगव्यं उवनिग्गए ।
वृ. काम्पिल्ये नगरे 'राजा' नृपतिरुदीर्णम्-उदयप्राप्तं बलं - चतुरङ्गं वाहनं च-1 -गिल्लिथिल्लया
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 316