Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 11
________________ ८ उत्तराध्ययन-मूलसूत्रम् - २ - १७ / ५५४ तार्थसाधुना चोद्यते, यथा-आयुष्मन् ! किमेवं त्वयाऽऽहारतत्परेणैव स्थीयते ?, दुर्लभा खल्वियं मनुजत्वादिचतुरङ्गसामग्री, तत एनामवाप्य तपस्येवोद्यन्तुमुचितमिति, ततः किमित्याह- 'चोइओ पडिचोरए'त्ति चोदितः सन् प्रतिचोदयति यथा कुशलस्त्वमुपदेशकर्मणि न तु स्वयमनुष्ठाने, अन्यथा किमेवमवगच्छन्नपि भवान्न विकृष्टं तपोऽनुतिष्ठति ?, शेषं तथैव । आयरियपरिच्चाई, परपासंडसेवए । मू. (५५५) गाणंगणिए दुब्भूए, पावसमणित्ति वुच्चई ॥ वृ. 'आचार्यपरित्यागी' ते हि तपःकर्मणि विषीदन्तमुद्यमयन्ति, आनीतमपि चान्नादि बालग्लानादिभ्य् दापयन्त्यतोऽतीवाहारलौल्यात्तत्परित्यजनशीलः परान् - अन्यान् पाषाण्डानसौगतप्रभृतीन् 'मृद्वी शय्या प्रातरुत्थाय पेया' इत्यादिकदभिप्रायतोऽत्यन्तमाहारप्रसक्तांस्तत एव हेतोः सेवते - तथा तथाऽपसर्पतीति परपाषण्डसेवक:, तथा च स्वेच्छाप्रवृत्ततया 'गाणंगणिए 'त्ति गणागणं षण्मासाभ्यन्तर एव संक्रामतीति गाणङ्गणिक इत्यागमिकी परिभाषा, तथा चागम:-“छम्मासऽब्धंतरतो गणा गण संकमं करेमाणो" इत्यादि, अत एव च 'दुर्निन्दायां', ततश्च 'दु:' इति निन्दितं भूतं - भवनमस्येति दुर्भूतः, दुराचारतया निन्द्यो भूत इत्यर्थः, तथैवेति सूत्रत्रयार्थः ॥ सम्प्रति वीर्यातिचारविरहतस्तमेवाह अपरं मू. (५५६ ) सयं गेहं परिच्चज्ज, परगेहंसि वावरे । निमित्तेन य ववहरई, पावसमणित्ति वुच्चई ॥ वृ. स्वमेव स्वकं, निजकमित्यर्थः, 'गेहं' गृहं 'परित्यज्य' परिहृत्य प्रव्रज्याङ्गीकरणतः 'परगेहे' अन्यवेश्मनि 'वावरे' त्ति व्याप्रियते-पिण्डार्थी सन् गृहिणामाप्तभावं दर्शयन् स्वतस्तत्कृत्यानि कुरुते, पठ्यते च- 'ववहरे' त्ति तत एव हेतोर्व्यहरति-गृहिनिमित्तं क्रयविक्रयव्यवहारं करोति, 'निमित्तेन च ' शुभाशुभसूचकेन 'व्यवहरति' द्रव्यार्जनं करोति, अपरं च पूर्ववत् । मू. (५५७) संनाइपिंडं जेमेइ, निच्छई सामुदानियं । गिहिनिसिज्जं च वाहेइ, पावसमणित्ति वुच्चई ॥ वृ. 'सन्नाय'त्ति स्वज्ञातयः - स्वकीयस्वजनास्तैर्निजक इति यथेप्सितो यः स्निग्धमधुरादिराहारो दीयते स स्वज्ञातिपिण्डस्तं 'जेमति' भुंक्ते, 'नेच्छति' नाभिलषति समुदानानि - भिक्षास्तेषां समूहः सामुदानिकम्, 'अचित्त हस्तिधेनोष्ठकं' इति ठक्, बहुगृहसम्बन्धिनं भिक्षासमूहमज्ञातोञ्छमितियावत्, गृहिणां निषद्या पर्यङ्कतूल्यादिका शय्या तां च 'वाहयति 'त्ति सुखशीलतयाऽऽरोहति शेषं तथैवेति सूत्रद्वयार्थः ॥ सम्प्रत्यध्ययनार्थमुपसंहरन्नुक्तरूपदोषो सेवनपरिहारयोः फलमाह मू. (५५८ ) एयारिसे पंचकुसीलसंवुडे, रूवंधरे मुनिपवराण हिट्टिमे । अयंसि लोए विसमेव गरहिए, न से इहं नेव परत्थलोए । वृ.‘एतादृशः' यादृश उक्त 'पञ्चे 'ति पञ्चसङ्घयः कृत्सितं शीलमेषां कुशीलाः- पार्श्वस्थादयः समाहृताः पञ्चकुशीलं तद्वदसंवृत्तः - अनिरुद्धाश्रवद्वारः पञ्चकुशीलासंवृतो रूपं रजोहरणादिकं . वेषं धारयति रूपधरः सूत्रे तु प्राकृतत्वाद्विन्दुनिर्देशः, 'मुनिप्रवराणाम्' अतिप्रधानतपस्विनां 'हिट्ठिमो' अधस्ताद्वर्त्ती, अतिजघन्यसंयमस्थानवर्त्तित्वान्निकृष्ट इत्यर्थः । एतत्फलमाह For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 316