Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं - १७, [ नि. ३९१] मू. (५५० )
विवायं च उदीरेइ, अधम्मे अत्तपन्हहा । वुग्गहे कलहे रत्ते, पावसमणित्ति वुच्चइ ॥
वृ. विरूपो वादो विवादः - वाक्कहस्तं 'च: ' पूरणे 'उदीरेइ 'त्ति कथञ्चिदुपशान्तमप्युत्प्राप्त'नादिना वृद्धि नयति, 'अधर्मः' अविद्यमानसदाचारः 'अत्तपण्हह 'त्ति आत्मनि प्रश्न: आत्मप्रश्नस्तं हन्त्यात्मप्रश्नहा:, यदि कश्चित्परः पृछेत् किं भवान्तरयायी आत्मा उत नेति ?, ततस्तमेव प्रश्नमतिवाचालतया हन्ति, यथा - नास्त्यात्मा प्रत्यक्षादिप्रमाणैरनुपलभ्यमानत्वात्, ततोऽयुक्तोऽयं प्रश्नः, सति हि धर्मिणि धर्माश्चिन्त्यन्त इति, पठ्यते च - 'अत्तपन्नह 'त्ति तत्र च आत्तांसिद्धान्तादिश्रवणतो गृहीतामातां वा इहपरलोकयोः सद्बोधरूपतया हिता प्रज्ञाम् आत्मनोऽन्येषां वा बुद्धि कुतर्कव्याकुलकीरणतो हन्ति यः स आत्तप्रज्ञाहा आप्तप्रज्ञाहा वा, 'वुग्गहे 'त्ति व्युद्ग्रहे दण्डादिघातजनिते विरोधे 'कलहे' तस्मिन्नेव वाचिके 'रक्तः' अभिवष्वक्तः, शेषं प्राग्वत् ॥ मू. (५५१ ) अथिरासने कुक्कुईए, जत्थ तत्थ निसीअई । आसणमि अनाउत्ते, पावसमणित्ति वुच्चइ ॥
वृ. अपरं च अस्थिरासनः कुकुच: कुक्रुचो वा द्वयमपि पूर्ववत्, 'यत्र तत्र' इति संसक्तसरजस्कादावपीत्यर्थः 'निषीदति' उपविशति 'आसने' पीठादौ 'अनायुक्तः' अनुपयुक्तः सन्, शेषं प्राग्वत् ॥
मू. (५५२)
ससरक्खापाओ सुअई, सिज्जं न पडिलेहई । संथारएअनाउत्तो, पावसमणित्ति वुच्चइ ॥
:
वृ. तथा सह रजसा वर्त्तेते इति सरजस्कौ तथाविधौ पदौ यस्य स तथा 'स्वपिति' शेते, किमुक्तं भवति ? - संयमविराधनां प्रत्यभीरुतयां पादावप्रमृज्यैव शेते, तथा 'शय्यां ' वसतिं न प्रतिलेखयति, उपलक्षणत्वान्न च प्रमार्जयति, 'संस्तारके' फलककम्बलादौ, सुप्त इति शेषः, 'अनायुक्तः ' "कुक्कुडिपायपसारण आयामेउं पुणोवि आउंटे" इत्याद्यागमार्थानुपयुक्तः, अन्यतथैवेति सूत्रनवकार्थः ॥ इदानीं तपआचारातिक्रमतः पापश्रमणमाहदुद्धदहीविगईओ, आहारेइ अभिक्खणं ।
मू. (५५३)
अरए अ तवोकम्मे, पावसमणित्ति वुच्चई ॥
वृ. दुग्धं च क्षीरं दधि च तद्विकार एव दधिदुग्धे, सूत्रे च प्राग्वद्, विकृतिहेतुत्वाद्विकृती, उपलक्षणत्वाद् धृताद्यशेषविकृतिपरिग्रहः, 'आहरायति' अभ्यवहरति 'अभीक्ष्णं' वारं वारं, तथाविधपुष्टालम्बनं विनाऽपीति भाव:, अत एव 'अरतश्च' अप्रीतिमांश्च 'तप:कर्मणि' अनशनादौ, शेषं प्राग्वत् ॥ अपि च
मू. (५५४) ¡ अत्थंतंमि य सूरंमि, आहारेइ अभिक्खणं ॥ चोइओ पडिचोएइ, पावसमणित्ति वुच्चई ॥
वृ.‘अत्थंतंभि य' त्ति ‘अस्तान्ते' अस्तमयपर्यन्ते, 'च: ' पूरणे, उदयादारभ्येति गम्यते, 'सूर्ये' भास्वति आहारयत्यभीक्षणं, किमुक्तं भवति ? - प्रातरारभ्य सन्ध्यां यावत्पुनः पुनर्भुक्ते, यदिवा 'अत्थंतमयंमि य'त्ति अस्तमयति सूर्ये आहारयति, तिष्ठति तु किमुच्यते ? इति भावः, किमेकदैवेत्याह-'अभीक्ष्णं' पुनः पुनः दिने दिने इत्युक्तं भवति, यदि चासौ केनचिन्द्रि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 316