Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 7
________________ उत्तराध्ययन-मूलसूत्रम्-२-१७/५३९ काले यत्र कस्यचिज्जन्तोस्तदुदयः, भावे विचारयितुमुपक्रान्ते पापम् ‘इदम्' अनन्तरमेव वक्ष्यमाणं 'हिंस'त्ति हिंसा प्रमत्तयोगात्प्राणव्यपरोपणं 'मृषा' असदभिधानं 'चौर्यं च' स्तैन्यम् 'अब्रह्म' मैथुनं ततः 'परिग्रहः' मूर्छात्मकः 'अपिः' समुच्चये 'च:' पूरणे गुणाः' सम्यग्दर्शननादयस्तद्विपक्षभूताः अगुणाः-मिथ्यात्वादयो दोषाः, नो विपक्षेऽवि दर्शनादमित्रादिवत्, 'भणिताः' उक्ताः, 'तुः' समुच्चये व्यवहितक्रमश्च, अगुणाश्च ये 'सूत्रे' आगमे अन्यत्र इहैव वा प्रस्तुताध्ययने। 'श्रमणे' श्रमणविषयः 'चतुष्कनिक्षेपकः' नामादिः 'तुः' पूरणे नामस्थापने पूर्ववत्, द्रव्ये निह्नवादय एव निह्नवादिकाः उक्तरूपाः 'ज्ञानी' प्रशंसायां मत्वर्थीयोत्पत्तेः प्रशस्तज्ञानवान् समिति-सम्यक सदनुष्ठानप्रवृत्त्या यमनं-पापस्थानेभ्य उपरमणं संयमश्चारित्रमितियावत्तेन सहितः-युक्तः संयमसहितो ज्ञातव्यो भावतः श्रमण इति गाथात्रयार्थः ।। सम्प्रति प्रस्तुते योजयन्नाहनि.[३९०] जे भावा अकरणिज्जा इहमज्झयणमि वन्निअ जिनेहि। ते भावे सेवंतो नायव्वो पावसमणोत्ति ।। वृ.ये 'भावाः' संसक्तापठनशीलतादयोऽर्थाः 'अकरणीयाः' कर्तुमनुचिताः 'इह' प्रस्तुतेऽध्ययने 'वन्निय'त्ति वर्णिताः प्ररूपिता: 'जिनैः' तीर्थकृद्भिस्तान् भावान् ‘सेवमानः' अनुतिष्ठान् 'ज्ञातव्यः' अवबोद्धव्यः पापेन-उक्तरूपेणोपलक्षितः श्रमणः पापश्रमणः, इतिशब्दः पापश्रमणशब्दस्य स्वरूपपरामर्शक इति गाथार्थः । एतद्विपरीतास्तु श्रमणाः, तेषां फलमाह- . नि.[ ३९१] एयाई पावाई जे खलु वज्जंति सुव्वया रिसओ। ते पावकम्ममुक्का सिद्धिमविग्घेण वच्चंति।। वृ. 'एतानि एतदध्ययनोक्तानि 'पापानि' पापहेतुभूतानि शयालुतादीनि 'ये' इत्यनिर्दिष्टरूपाः 'खलुः' वाक्यालङ्कारे वर्जयन्ति' परिहरन्ति सुव्रता ऋषयः पूर्ववत्, ते पापं च तत्कर्म च पापकर्म तेन उपलक्षणत्वात्पुण्यकर्मणा च मुक्ताः-त्यक्ताः पापकर्ममुक्ता 'सिद्धि' सिद्धिगतिम् 'अविघ्नेन' अन्तरायाभावेन 'वच्चंति'त्ति 'व्रजन्ति' गच्छन्तीति गाथार्थः ।। गतो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू.(५३९) जे केइ उपव्वइए नियंठे, धम्म सुणित्ता विनओववन्ने। । सुदुल्लहं लहिउं बोहिलाभं, विहरिज पच्छा य जहासुहं तु॥ वृ. 'यः कश्चित्' इत्यविवक्षितविशेषः 'तुः' पूरणे, पठन्ति च - 'जे के इम'त्ति तत्र च 'इमे'त्ति अयं 'प्रव्रजितः' निष्क्रान्तः निर्ग्रन्थः प्राग्वत्, कथं पुनरयु प्रव्रजित इत्याह-'धर्म' श्रुतचारित्ररूपं श्रुत्वा' निशम्य विनयेन-ज्ञानदर्शनचारित्रोपचारात्मकेनोपपन्नो-युक्तो विनयोपपन्नः सन् 'सुदुर्लभम्' अतिशयदुष्प्रापं 'लभिउंति लब्ध्या 'बोधिलाभं' जिनप्रणीतधर्मप्राप्तिरूपम्, अनेन भावप्रतिपत्त्याऽसौ प्रव्रजित इत्युक्तं भवति, स किमित्याह-'विहरेत्' चरेत्, ‘पश्चात्' प्रव्रजनोत्तरकाल 'चः' पुनरर्थो विशेषद्योतकस्ततश्च प्रथमं सिंहवृत्त्या प्रव्रज्य पश्चात्पुनः 'यथासुखं' यथा यथा विकथादिकरणलक्षणेन प्रकारेण सुखमात्मनोऽवभासते तुशब्दस्यैवकारार्थत्वाद्यथासुखमेव शृगालवृत्त्यैव विहरेदित्यर्थ: उक्तं हि-"सीहत्ताए निक्खंतो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 316