Book Title: Agam Suttani Satikam Part 25 Aavashyaka Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 9
________________ - आवश्यक-मूलसूत्रम् -२- २/३ क्त्यनुगमस्तुसूत्रेसतिभवति, सूत्रंचसूत्रानुगमइतिस चावसरप्राप्त एव, युगपञ्चसूत्रादयो व्रजन्ति, “सुत्तं सुत्तानुगमो सुत्तालावयकओय निक्खेवो । सुत्तप्फासियनित्ति नया य समगंतु वच्चंति ।।" विषयविभागः पुनरमीषामयं वेदितव्यः "होइ कयत्थो वोत्तुंसपयच्छेयं सुयं सुयानुगमो । सुत्तालावयनासो नामाइन्नासविनिओगं ।।" सुत्तप्फासियनिनुत्तिनिओगो सेसओ पयत्थाई । पायं सोच्चिय नेगमनयाइमयगोयरो भणिओ ।। अत्राऽऽक्षेपपरिहारा न्यक्षेण सामायिकाध्ययने निरुपिता एव नेह वितन्यत इत्यलं विस्तरेण, तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदं सूत्रम्मू. (३) लोगस्सुजोयगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं, चउवीसंपि केवली ।। वृ- तल्लक्षणं चेदं-'संहिता चे' त्यादि पूर्ववत्, तत्रास्खलितपदोच्चारणं संहिता, यद्वा परः संनिकर्ष इति, सा चेयं- 'लोगस्सुजोयगरे' इत्यादि पाठः । अधुनापदानि, लोकस्य उद्योतकरान् धर्मतीर्थकरान् जिनान् अर्हतः कीर्तयिष्यामि चतुर्विंशतिमपि केवलिनः । अधुना पदार्थः-लोक्यत इति लोकः, लोक्यते-प्रमाणेन दृश्यत इति भावः, अयं चेह तावत्पञ्चास्तिकायात्मको गृह्यते, तस्य लोकस्य किं ?-उद्योतकरणशीला उद्योतकरास्तान, केवलालोकेन तत्पूर्वकप्रवचनदीपेन वा सर्वलोकप्रकाशकरणशीलानित्यर्थः, तथा दुर्गतौ प्रपतन्तमात्मानंधारयतीतिधर्मः, उक्तंच-“दुर्गतिप्रसृतान् जीवा" नित्यादि, तथा तीर्थतेऽनेनेति तीर्थं धर्म एव धर्मप्रधानं वा तीर्थ धर्मतीर्थं तत्करणशीलाः धर्मतीर्थकरास्तान्, तथा रागद्वेषकषायेन्द्रियपरीषहोपसर्गाष्टप्रकारकर्मजे-तृत्वाज्जिनास्तान्, तथा अशोकाद्यष्टमहाप्रातिहादिरुपां पूजामर्हन्तीत्यर्हन्तस्तानर्हतः, कीर्तयिष्यामीति स्वनामभिः स्तोष्य इत्यर्थः, चतुर्विंशतिरिति सङ्ख्या, अपिशब्दोभावतस्तदन्यसमुच्चयार्थः, केवलज्ञानमेषां विद्यत इति केवलिनस्तान केवलित इति । उक्तः पदार्थः, पदविग्रहोऽपि यथावसरं यानि समासभाजि पदानि तेषु दर्शित एव । साम्प्रतं चालनावसरः, तत्र तिष्ठतु तावत्सा, सुत्रस्पर्शिका नियुक्तिरेवोच्यते, स्वस्थानत्वाद, उक्तंच “अक्खलियसंहियाई वक्खाणचउक्कए दरिसियंमि । __ सुत्तप्फासियनिज्जुत्तिवित्थरस्थो इमो होइ ।।'' चालनामपि चात्रैव वक्ष्यामः, तत्र लोकस्योद्योतकरानिति यदुक्तं तत्र लोकनिरुपणायाऽऽहनि. (१०५७) नामं १ ठवणा २ दविए ३ खित्ते ४ काले ५ भवे अ६ भावे अ७ । पज्जवलोगे अ ८ तहा अट्ठविहो लोगनिक्खेवो ।। वृ- नामलोकः स्थापनालोकः द्रव्यलोकः क्षेत्रलोकः काललोकः भवलोको भावलोकश्च पर्यायलोकश्च तथा, एवमष्टविधो लोकनिक्षेप इति गाथासमासार्थः ।। व्यासार्थं तु भाष्यकार एव वक्ष्यति, तत्र नामस्थापने अनादृत्य द्रव्यलोकमभिधित्सुराह [भा.१९५] जीवमजीवे रुवमरुवी सपएसमप्पएसे अ । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 356